________________ 320 सिद्धहैमबृहत्प्रक्रिया. [तद्धित 1567 पुरोडाशपौरोडाशादिकेकटौ // 6 // 3 // 146 // आभ्यां ग्रन्थवाचिभ्यां तस्य व्याख्याने तत्र भवे चार्थे इक इकट् इत्येतो प्रत्ययौ स्याताम् / अणीयणोरिकणोऽपवादः / वचनभेदाद्यथासंख्याभावः / इकेकटोः स्त्रियां विशेषः / पुरोडाशाः पिष्टपिण्डाः / तैः सहचरितो मंत्रः पुरोडाशः तस्य व्याख्यानस्तत्र भवो वा पौरोडाशिकः / पौरोडाशिका / पौरोडाशिकी। 1568 छन्दसो यः // 6 // 3 // 147 // छन्दःशब्दाद् ग्रन्थवाचिनस्तस्य व्याख्याने तत्र भवे च यः प्रत्ययः स्यात् / द्विस्वरेकणोऽपवादः / छन्दसो व्याख्यानस्तत्र भवो वा छन्दस्यः / 1569 शिक्षादेश्वाण // 6 // 3 // 148 // शिक्षा इत्येवमादिभ्यश्छन्दःशब्दाच्च ग्रन्थवाचिनस्तस्य व्याख्याने तत्र भवे चार्थेऽण् प्रत्ययः स्यात् / इकणोऽपवादः / शिक्षाया व्याख्यानस्तत्र भवो वा शैक्षः। आगेयनः / छन्दस्-छान्दसः / एवं छन्दस्शब्दस्य द्वैरूप्यं भवति / अण्ग्रहणमीयबाधनार्थम् / नैयायः / वास्तुविद्यः / 1570 तत आगते // 6 // 3 // 149 // तत इति पञ्चम्यन्तादागतेऽर्थे यथाविहितमणादय एयणादयश्च प्रत्ययाः स्युः / खुनादागतः सौनः / माथुरः / औत्सः। गव्यः। दैत्यः। बाह्यः। कालेयः। आग्नेयः। स्त्रैणः। पौंस्नः। राष्टियः। ग्रामीणः / ग्राम्यः / मुख्यापादानपरिग्रहात् उनादागच्छन् वृक्षमूलादागत इत्यत्र वृक्षमूलानान्तरीयकापादान भवति / . 1571 विद्यायोनिसंबंधादकञ् // 6 / 3 / 150 // विद्याकृतो योनिकृतश्च संबंधो येषां तद्वाचिभ्यः पञ्चम्यन्तेभ्य आगतेऽर्थेऽकञ् प्रत्ययः स्यात् / अणोऽपवादः / इयं तु परत्वाद् बाधते / विद्यासंबंन्धः-आचार्यादागतमाचार्यकम् / औपाध्यायकम् / शैष्यकम् / आत्विजकम् / आन्तेवासकम् / योनिसंबन्ध-पैतामहकम् / मातामहकम् / पैतृव्यकम् / मातुलकम् / 1572 पितुर्यों वा // 6 // 3 / 151 // पितृशब्दाद्योनिसंबंधवाचिनः पञ्चम्यन्तादागतेऽर्थे यः प्रत्ययो वा स्यात् / इकणोऽपवादः।। 1573 ऋतो रस्तद्धिते / / 1 / 2 / 26 // ऋकारस्य यकारादौ तद्धिते परे रादेशः स्यात् / इति रत्वम् / पितुरागतं पित्र्यम् / पक्षे पैतृकम् /