________________ प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. कृष्टेऽपि तत्र भवेऽर्थे पूर्वमेव प्रत्ययविधिरुक्तस्तत् किमनयोयुगपदुपादानम् ? उच्यते / वक्ष्यमाणः सकलोऽप्यपवादविधिरनयोरर्थयोर्यथा स्यादित्येवमर्थम् / उत्तरेणैकयोगत्वे चानुकृष्टत्वात्तत्र भव इत्यस्य ततः परं नानुत्तिः स्यात् / योगविभागे विहानुत्तिरनथिंकेति द्वयोरुत्तरत्रानुत्तिर्भवति / उदाहरणोपन्यासस्तु अनुवादमात्रम् / ग्रन्थादिति किम् / पाटलिपुत्रस्य व्याख्यानी सुकोसलापाटलिपुत्रमेवं संनिवेशमिति सुकोसलया प्रतिच्छन्दकभूतया व्याख्यायते न तु पाटलिपुत्रं ग्रन्थ इत्युत्तरेणापवादिक इकण न भवति / 1564 प्रायो बहुस्वरादिकण // 6 / 3 / 143 // बहुस्वराद् ग्रंथवाचिनस्तस्य व्याख्याने तत्र भवे चार्थे प्राय इकण् प्रत्ययः स्यात् / अणादेरपवादः / षखणखयोाख्यानं तत्र भवं वा पात्वणत्विकम् / कथं नातानतिकम् / उदात्तानुदात्तयोः स्वरयोरेते नतानतसंज्ञे / प्रायोवचनात् कचिन्न भवति / सांहितम् / प्रातिपदिकीयम्। 1565 ऋगृद्धिस्वरयागेभ्यः // 6 // 3 // 144 // ऋच् इत्येतस्मात् ऋकारान्ताद् द्विस्वरात् यागशब्देभ्यश्च ग्रन्थवाचिभ्यस्तस्य व्याख्याने तत्र भवे चार्थे इकण प्रत्ययः स्यात् / अणादेरपवादः / ऋचां व्याख्यानं ऋक्षु भवं वा आर्चिकम् / ऋकारान्त-चतुषु होतृषु भव इत्यणो लुपि चतुर्दाता ग्रन्थः / तस्य व्याख्यानं तत्र भवं वा चातुतिकम् / एवं पाश्चहोतृकम् / द्विस्वर-आङ्गिकम् / पौर्विकम् / सौत्रिकम् / तार्किकम् / नामिकम् / याग-आमिष्टोमिकम् / राजसूयिकम् / वाजपेयिकम् / पाकयज्ञिकम् / नावयाज्ञिकम् / पाञ्चौदनिकम् / दाशौदनिकम् / ऋयागग्रहणं पूर्वस्यैव प्रपञ्चः / यागेभ्य इति बहुवचनं ससोमकानामग्निष्टोमादीनाम् असोमकानां पश्चौदनादीनां च परिग्रहार्थम् / 1566 ऋषेरध्याये / / 6 / 3 / 145 // ऋषिशब्देभ्यो ग्रन्थवाचिभ्यस्तस्य व्याख्याने तत्र भवे चाध्याये इकण प्रत्ययः स्यात् / वसिष्ठस्य ग्रन्थस्य व्याख्यानस्तत्र भवो वा वासिष्ठिकोऽध्यायः / अध्याय इति किम् / वसिष्ठस्य व्याख्यानी तत्र भवा वा वासिष्ठी ऋक् / ' प्रायो बहुस्वरादि ' ति प्रायोग्रहणादप्राप्तिकल्पनायां विध्यर्थम् , प्राप्तिकल्पनायामध्याय एवेति नियमार्थ वचनम् /