________________ 318 सिद्धहैमबृहत्पक्रिया. [तद्धित 1560 कर्णललाटात्कल // 6 // 3141 // रूढाविति वर्तते / सेह रूढिः पकृतिप्रत्ययसमुदायस्य विशेषणम् / कर्णललाटशब्दाभ्यां तत्र भवे कल स्यात् रूढी-प्रकृतिप्रत्ययसमुदायश्चेत् कचिद्रुढो भवति। कणिका कर्णाभरणविशेषः पद्माद्यवयवश्च / ललाटिका ललाटमण्डनम् / रूढावित्येव / कर्णे भवं कर्ण्यम् / ललाट्यम् / लकारः स्त्रीत्वार्थः। 1561 देविकाशिंशपादीर्घसत्रश्रेयसस्तत्प्राप्तावाः॥७।४।३।। देविका शिंशपादीर्घसत्रश्रेयस् इत्येतेषां ब्णिति तद्धिते निमित्ते तत्प्राप्तौ वृद्धिप्रसङ्गे आकार आदेशः स्यात् / देविकायां भवं दाविकमुदकम् / देविकाकूले भवा दाविकाकूलाः शालयः / पूर्वदेविका नाम प्राच्यग्रामस्तत्र भवः पूर्वदाविकः / अत्र प्राग्ग्रामाणामित्युत्तरपदवृद्धिप्राप्तिः / शिशपाया विकारः शांशपः स्तम्भः / शिंशपास्थले भवाः शांशपास्थलाः शालयः / पूर्वशिंशपा नाम प्राच्यग्रामस्तत्र भवः पूर्वशांशपः / दीर्घसत्रे भवं दार्पसत्रम् / श्रेयोऽधिकृत्य कृतं श्रायसं द्वादशाङ्गम् / तत्पासाविति किमर्थम् / सुदेविकायां भवः सौदेविक इत्यत्र निषेधार्थ पूर्वोत्तरपदानामपि यथा स्यादित्येवमर्थ च / अन्यथा हि केवलानामेव स्यात् / 1562 प्राग्ग्रामाणाम् // 74 / 17 // प्राग्देशग्रामवाचिनां योऽवयवो दिग्वाची ततः परस्यावयवस्य दिशः परेषां च प्राग्रामवाचिनां णिति तद्धिते परे स्वरेष्वादेः स्वरस्य वृद्धिः स्यात् / पूर्वकृष्णमृत्तिका नाम प्राक्षु ग्रामः तत्र भवः पूर्वकार्ष्णमृत्तिकः / एवमपरकाऴ्मृत्तिकः / पूर्वेषुकामशमी नाम प्राग्ग्रामस्तत्र भवः पूर्वेषुकामशमः / एवमपरैषुकामशमः। बहुवचनाद् ग्रामग्रहणेन नगरमपि गृह्यते / पूर्वस्मिन् कन्यकुब्जे भवः पूर्वकान्यकुब्जः। अपरकान्यकुब्जः / प्राग्नहणं किम् / देवदत्तं नाम वाहीकग्रामः पूर्वस्मिन् देवदत्ते भवः पौर्वदेवदत्तः / 1563 तस्य व्याख्याने च ग्रन्थात् // 6 // 3 // 142 // ग्रन्थः शब्दसंदर्भः / स व्याख्यायते अवयशः कथ्यते येन तद् व्याख्यानम् / तस्येति षष्ठयन्ताद् व्याख्यानेऽर्थे तोति सप्तम्यन्ताच भवेऽर्थे ग्रन्थवाचिनो यथाविहितं प्रत्ययः स्यात् / चकारस्तत्र भव इत्यस्यानुकर्षणार्थः / वाक्यार्थसमीपे चकारः श्रूयमाणः पूर्ववाक्यार्थमेव समुचिनोति / कृतां व्याख्यानं कृत्सु भवं वा कार्तम् / प्रातिपदिकीयम्। ननु च तस्य व्याख्यानेऽर्थे तस्येदमित्यनेनैव प्रत्ययविधिः सिद्धः चकारानु