SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. भ्योऽव्ययीभावेभ्यस्तत्र भवे ज्यः प्रत्ययः स्यात् / अणोऽपवादः / परितः सर्वतो मुखं परिमुखम् / अतएव वचनादव्ययीभावः / वर्जनाथी वा परिः / मुखात परि परिमुखम् / पर्यपाङित्यादिनाऽव्ययीभावः / परिमुखे भवः पारिमुख्यः / पारिहनव्यः। परिमुखादेरिति किम् / औपकूलम् / औपमूलम् / औपशाखम्। औपकुम्भम् / औपखलम् / आनुकुम्भम् / आनुकूलम् / आनुखलम् / अव्ययीभावादिति किम् / परिग्लानो मुखाय परिमुखः, तत्र भवः पारिमुखः। 1556 अन्तःपूर्वादिकण // 6 / 3 / 137 / अन्तःशब्दपूर्वपदादव्ययीभावात्तत्र भवे इकण प्रत्ययः स्यात् / अणोऽपवादः / अगारस्यान्तः अन्तरगारम् / तत्र भव आन्तरगारिकः / आन्तगैहिकः ।आन्तवैश्मिकः। आन्तःपुरिकः। अव्ययीभावादित्येव / अन्तर्गतमगारस्य अन्तःस्थं वागारमन्तरगारम् / तत्र भवमान्तरगारम् / आन्तःपुरम् / आन्तःकरणम् / 1557 पर्यनोामात् // 6 // 3 // 138 // परि अनु इत्येताभ्यां परो यो ग्रामशब्दस्तदन्तादव्ययीभावात्तत्र भवे इकण प्रत्यय: स्यात् / अणोऽपवादः / ग्रामात् परि परिग्रामम् / ग्रामस्य समीपमनुग्रामम् / तत्र भवः पारिग्रामिकः / आनुग्रामिकः। अव्ययीभावादित्येव / परिगतो ग्रामः परिग्रामस्तत्र भवः पारिग्रामः। आनुग्रामः / 1558 उपाजानुनविकर्णात् प्रायेण // 6 / 3 / 130 // उप इत्येतस्मात परे ये जानुनीविकर्णशब्दास्तदन्तादव्ययीभावादिकण प्रत्ययः स्यात् प्रायेण तत्र भवे यस्तत्र बाहुल्येन भवति अन्यत्र च कदाचिद् भवति तस्मिन्नित्यर्थः / जानुनः समीपमुपजानु / प्रायेणोपजानु भवति औपजानुकः सेवकः। औपजानुकं शाटकम् / औपनीविकं ग्रीवादाम / औपनीविकं कार्षापणम्। औपकर्णिकः सूचकः / प्रायेणेति किम् / नित्यं भवे मा मूत् / औपजानवं मांसम् / औपजानवं मडु / जानुशब्दो देहावयवो नोपजानुशब्द इति यो न भवति / 1559 रूढावन्तःपुरादिकः // 6 // 3 / 140 // अन्तःपुरशब्दात् तत्र भवे इकः प्रत्ययः स्यात् रूढौ-स चेदन्तःपुरशब्दः कचिद्रूढः / क चायं रूढः एकपुरुषपरिग्रहे स्त्रीसमुदाये / उपचारात्तन्निवासेऽपि / अन्तःपुरे भवा अन्तःपुरिका स्त्री। रूढाविति किम् / पुरस्यान्तर्गतम् अन्तःपुरम् / तत्र भवः आन्तःपुरः / पुरस्यान्तरन्तःपुरमिति अव्ययीभावात्त्विकण भवति / आन्तःपुरिक इति /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy