________________ सिद्धहैमबृहत्मक्रिया. न्तेभ्यो भवेऽर्थे एयण प्रत्ययः स्यात् / अणादीनामपवादः। दृतौ चर्मखल्लायां भवं दातेयं जलम् / कुक्षौ देहांशे भवः कौक्षेयो व्याधिः / देशार्थादपि भवे परत्वात् अयमेव न धूमाधकञ् / असावप्ययमेव न कुलकुक्ष्याद्येयकञ् / असि कौक्षेयमुद्यम्य / कलश्यां मन्थन्यां भवं कालशेयं तक्रम् / वस्तौ पुरीषनिर्गमरन्ध्रे भवं वास्तेयं पुरीषम् / अहौ भवमाहेयं विषम् / 1550 आस्तेयम् // 6 // 3 // 131 // अस्तिशब्दात्तिवन्तप्रतिरूपकादव्ययाद्धनविद्यमानपर्यायात्तत्र भवे एयण प्रत्ययो निपात्यते असृजशब्दस्य वास्त्यादेशश्च / धने वा विद्यमाने वा असृजि वा भवमास्तेयम् / . 1551 ग्रीवातोऽण् च // 6 // 3 / 132 // ग्रीवाशब्दाद्भवेऽर्थेऽण चकारादेयण च प्रत्ययौ स्याताम् / देहांशयापवादः / ग्रीवायां ग्रीवासु वा भवं ग्रैवं ग्रैवेयम् / ग्रीवाशब्दो यदा शिरोधमनीवचनस्तदा तासां बहुत्वाद् बहुवचनम् / 1872 चतुर्मासान्नानि // 6 // 3 // 133 // चतुर्मासशब्दात्तत्र भवेऽण प्रत्ययः स्यान्नान्नि समुदायश्चेन्नाम / चतुर्यु मासेषु भवा चातुर्मासी आषाढी कार्तिकी फाल्गुनी च पौर्णमासी भण्यते / अत्र विधानसामर्थ्याद् 'द्विगोरनपत्ये' इत्यादिना प्रत्ययस्य लुब् न भवति / नाम्नीति किम् / चतुषु मासेषु भवश्चतुर्मासः। अत्र वर्षाकालेभ्य इतीकण / तस्य लुप् / 1563 यज्ञे व्यः // 6 / 3 / 134 // चतुर्मासशब्दात्तत्र भवे यज्ञे व्यः प्रत्ययः स्यात् / चतुर्यु मासेषु भवानि चातुर्मास्यानि यज्ञकर्माणि। 1554 गंभीरपञ्चजनबहिर्देवात् // 6 // 3 / 136 // गम्भीरपञ्चजनवहिर्देव इत्येतेभ्यस्तत्र भवे व्यः प्रत्ययः स्यात् / अणाद्यपवादः / गंभीरे भवो गांभीर्यः / पाञ्चजन्यः / बाह्यः / दैव्यः / भवादन्यत्र गांभीरः / पाञ्चजनः / द्विगौ त्वणोलपि पञ्चजनः / बाहीकः / दैवः। भवेऽपि बाहीक इत्येके / 1555 परिमुखादेरव्ययीभावात् // 6 / 3 / 136 // परिमुख इत्येवमादि