SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. . 315 .. 1542 भवे // 6 / 3 / 123 / / तत्रेत्यनुवर्तते / तत्रेति सप्तम्यन्ताद् भवेऽर्थे यथाविहितमणादय एयणादश्च प्रत्ययाः स्युः / सत्ता भवत्यर्थो गृह्यते न जन्म जात इत्यनेन गतार्थत्वात् सुघ्ने भवः स्रौनः। औत्सः। नादेयः। राष्ट्रियः / पारावारीणः / ग्राम्यः / ग्रामीणः। ... 1543 दिगादिदेहांशाद्यः // 6 / 3 / 124 // दिगादिभ्यो देहावयववाचिनश्च सप्तम्यन्ताद् भवेऽर्थे या प्रत्ययः स्यात् / अणीयादेरपवादः / दिशि भवो दिश्यः / वर्यः / अप्सु भवोऽप्सव्यः / 'अपो ययोनिमतिचरे' इति सप्तम्यलुप् / देहांशमूर्धन्यः / 'अनोऽट्ये ये' इत्यनो लोपाभावः / दन्त्यः / कर्ण्यः / ओष्ठयः / पाण्यः / पद्यः / तालव्यः। मुख्यः / जघन्यः / देहांशात्तदन्तादपीच्छन्त्येके / कण्ठतालव्यः / दन्तोष्ठयः। 1544 नाम्न्युदकात् // 6 // 3 // 12 // उदकशब्दात् सप्तम्यन्ताद् भवेऽर्थे 1545 मध्याद्दिनण्णेया मोऽन्तश्च // 6 // 3 // 126 // मध्यशब्दात् सप्तम्यन्ताद् भवेऽर्थे दिनण ण ईय इत्येते प्रत्ययाः स्युः तत्संनियोगे च मागमः / मध्ये भवा माध्यंदिना उद्गायन्ति ।माध्यमः / मध्यमीयः। अन्ये तु दिनं णितं नेच्छन्ति / मध्यंदिनः। 1546 जिह्वामूलागुलश्चेयः // 6 / 3 / 127 // जिह्वामूल अङ्गुलि इत्येताभ्यां मध्यशब्दाच्च भवेऽर्थे ईयः प्रत्ययः स्यात् / यापवादः। जिह्वामूले भवो जिह्वामूलीयः / अङ्गुलीयः / मध्यीयः / चकारेण मध्यशब्दानुकर्षणं मागमाभावार्थम् / 1547 वर्गान्तात् // 6 // 3 // 128 // वर्गशब्दान्तात् सप्तम्यन्ताद् भवेऽर्थे ईयः प्रत्ययः स्यात् / अणोऽपवादः / कवर्गीयो वर्णः। 1548 ईनयौ चाऽशब्दे // 6 / 3 / 129 // वर्गशब्दान्तात् सप्तम्यन्ताद् भवेऽर्थे ईन य इत्येतौ प्रत्ययौ चकारादीयश्च प्रत्ययाः स्युः अशब्दे-न चेत् स भवार्थः शब्दो भवति / भरतवर्गीणः, भरतवर्यः, भरतवर्गीयः / अशब्द इति किम् / कवर्गीयः।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy