________________ सिद्धहैमबृहत्प्रक्रिया. [तद्धित 1536 साधुपुष्यत्पच्यमाने // 6 / 3 / 117 // कालादिति वर्तते / तत्रेति सप्तम्यन्तात् कालविशेषवाचिनः साधौ पुष्यति पच्यमाने चार्थे यथाविहितं प्रत्ययाः स्युः / हेमन्ते साधु हैमनमनुलेपनम् / हैमन्तं हैमन्तिकम् / वसन्ते पुष्यन्ति वासन्त्यः कुन्दलताः / शरदि पच्यन्ते शारदाः शालयः। 1537 उप्ते // 6 // 3 // 118 // तत्रेति सप्तम्यन्तात् कालवाचिनः उप्तेऽर्थे यथाविहितं प्रत्ययः स्यात् / शरद्युप्ताः शारदा यवाः / हेमन्ते हैमनाः / ग्रैष्माः। मैदाघाः / योगविभाग उत्तरार्थः / ' . 1538 आश्वयुज्या अकञ् // 6 / 3 / 119 // आश्वयुजीशब्दात् सप्तम्यन्तादुप्तेऽर्थेऽकञ् प्रत्ययः स्यात् / इकणोऽपवादः। अश्विनीभिश्चन्द्रयुक्ताभियुक्ता या पौर्णमासी सा आश्वयुजी। अश्विनीपर्यायोऽश्वयुक्शब्दः। आश्वयुज्यां कौमुद्यामुप्ता आश्वयुजका माषाः। 1539 ग्रीष्मवसन्ताद्वा // 6 // 3 // 120 // आभ्यां सप्तम्यन्ताभ्यामुप्तेऽर्थेsकन् प्रत्ययो वा स्यात् / 'ऋत्वणोऽपादः / गृष्मकं ग्रैष्मं सस्यम् / वासन्तकं वासन्तम् सस्यम् / . 1540 व्याहरति मृगे // 6 // 3 // 121 // तत्रेति वर्तते कालादिति च / तत्रेति सप्तम्यन्तात् कालवाचिनो व्याहरत्यर्थे यथाविहितं प्रत्ययः स्यात् व्याहरश्चेमृगः / निशायां व्याहरति नैशिको नैशो वा शृगालः / प्रादोषिकः प्रादोषो वा शृगालः / मृग इति किम् / वसन्ते व्याहरति कोकिलः / ... 1541 जयिनि च // 6 / 3 / 122 // जयः प्रसहनमभ्यासः / सोऽस्यास्तीति जयी / तत्रेति सप्तम्यन्तात् कालवा चिनो जयिनि वाच्ये यथाविहितं प्रत्ययः स्यात् / निशासहचरितमध्ययनं निशा तत्र जयी साभ्यासः नैशिकः नैशः / प्रादोषिकः प्रादोषः / वासन्तः। वार्षिकः / केवलकालविषयस्य जयस्यायोगानिशादिसहचरिताध्ययनादिवृत्तयो निशादयः शब्दाः प्रत्ययमुत्पादयन्ति / चकारः कालादित्यनुकर्षणार्थः / तेन चानुकृष्टत्वान्नोत्तरत्रानुवर्तते /