SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 313 1532 कालाद्दये ऋणे // 6 // 3 // 113 // तत्रेति वर्तते। तत्रेति सप्तम्यन्तात् कालविशेषवाचिनो देयेऽर्थे यथाविहितं प्रत्ययः स्यात्, यत्तदेयमृणं चेत्तद्भवति / नाम्नीति निवृत्तम् / मासे देयं मासिकमृणम् / आर्धमासिकम् / सांवत्सरिकम् ऋणम् / मासादिके गते देयमित्यर्थः / ऋण इति किम् / मासे देया भिक्षा / स्वातौ देयं स्वस्तिवाचनम् / 1533 कलाप्यश्वत्थयवबुसोमाव्यासैषमसोऽकः // 6 // 3 // 114 // कलापिन् अश्वत्थ यवबुस उमाव्यास ऐषमस् इत्येतेभ्यः कालवाचिभ्यः सप्तम्यन्तेभ्यो देय ऋणेऽकः प्रत्ययः स्यात् / इकणा देरपवादः / यस्मिन् काले मयूराः केदाराः कलापिनो भवन्ति स कालस्तत्साहचर्यात् कलापी तत्र देयमणं कलापकम् / यस्मिन् कालेऽश्वत्थाः फलन्ति स कालोऽश्वत्थफलसहचरितोऽश्वत्थः / तत्र देयमृणमश्वत्थकम् / यस्मिन् काले यवानां बुसं भवति स कालो यवबुसम् तत्र देयमृणं यवबुसकम् / उमा व्यस्यन्ते विक्षिप्यन्ते यत्र स काल उमाव्यासस्तत्र देयमृणमुमाव्यासकम् / ऐषमोऽस्मिन् संवत्सरे देयमृणमैषमकम् / 1534 ग्रीष्मावरसमादकञ् // 6 / 3 / 116 // ग्रीष्म अवरसमा इत्येताभ्यां कालवाचिभ्यां सप्तम्यन्ताभ्यां देये ऋणेऽकञ् प्रत्ययः स्यात् / अणिकणोरपवादः। अकारो वृद्धयर्थः / ग्रीष्मे देयमृणं ग्रैष्मकम् / अवरा समा असरसमा समाया अवरत्वमित्यवरसमं वा / तत्रावरसमकम् / अपरसमादपीच्छन्त्येके / आपरसमकम् / 1535 संवत्सराग्रहायण्या इकण च // 6 // 3 // 116 // संवत्सर आग्रहायणी इत्येताभ्यां सप्तम्यन्ताभ्यां देये ऋणे इकण चकारादकश्च प्रत्ययौ स्याताम् / अणिकणोरपवादः। संवत्सराद्धि फले पर्वणि च ऋणेऽण प्राप्नोति / संवत्सरे देयमृणं फलं पर्व वा सांवत्सरिकम् / सांवत्सरकम् / आग्रहायणिकम् / आग्रहायणकम् / वेत्यकृत्वा इकण्वेति विधानं संवत्सरफलपर्वणोरित्यण्वाधनार्थम् / 1 आदिशब्दात् ‘ऐषमोह्यः श्वसो वा' इति त्यच्तनटौ / 40
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy