________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 311 वास्यायां जातः अमावास्यः। अमावास्यकः / पक्षे सन्ध्याद्यण / आमावास्यः। एकदेशविकृतस्यानन्यत्वात् अमावस्याशब्दादपि भवति / अमावस्यः अमावस्यकः / आमावस्यः। नाम्नीत्येव / आमावास्यः / 1522 अविष्ठाषाढादीयण च // 6 // 3 // 105 // श्रविष्ठा अषाढा इत्येताभ्यां जातेऽर्थे ईयण चकारादश्च प्रत्ययौ स्यातां नानि / भाऽणोऽपवादः। श्रविष्ठाः धनिष्ठाः। ताभिश्चन्द्रयुक्ताभिः युक्तः कालः श्रविष्ठाः। तासु जातः श्राविष्ठीयः / श्रविष्ठः। एवमषाढायामषाढयोरपाढासु वा जातः आषाढीयः / अषाढः। अणमपीच्छन्त्येके / श्राविष्ठः। आषाढः। 1523 फल्गुन्याष्टः // 6 // 3 / 106 // फल्गुनीशद्वात् सप्तम्यन्ताजातेऽर्थे टः प्रत्ययः स्यान्नान्नि / भाऽणोऽपवादः। फल्गुन्योर्जातः फल्गुनः / फल्गुनी स्त्री / अणमपीच्छन्त्येके / फाल्गुनः / टकारो डन्यर्थः / 1524 बहुलानुराधापुष्यार्थपुनर्वसुहस्तविशाखास्वातलृप् // 6 / / 3 / 107 // बहुलादिभ्यः सप्तम्यन्तेभ्यः परस्य भाणो जातेऽथै लुप स्यान्नानि / बहुलाः कृत्तिकाः ताभिश्चन्द्रयुक्ताभिर्युक्तः कालो बहुलाः तासु जातो बहुलः। अत्राणो लुपि डन्यादेणस्येत्यादिनाऽऽपोऽपि लुप् / एवमनुराधासु अनुराधः। घञ्युपसर्गस्य बहुलमिति दीर्घत्वे अनूराधाः। तासु अनूराधः। पुष्यार्थपुष्ये पुष्यः। तिष्यः / सिध्यः। पुनर्वसौ पुनर्वसुः / हस्ते हस्तः / विशाखायां विशाखः / स्वातौ स्वातिः। 1528 चित्रारेवतीरोहिण्याः स्त्रियाम् // 6 / 3 / 108 // चित्रादिभ्यः सप्तम्यन्तेभ्यः परस्य भाणो जातेऽर्थे स्त्रियां लुप् स्यात् नाम्नि / चित्रायां जाता चित्रा माणविका / रेवत्यां रेवती। रोहिण्यां रोहिणी। स्त्रियामिति किम् / चैत्रः / रैवतः / रौहिणः / पुंस्येषां विकल्प इत्येके / तन्मते चित्रः रेवतः रोहिणः इत्यपि भवति / 1526 बहुलमन्येभ्यः ॥६।३।१०९॥श्रविष्ठादिभ्यो येऽन्ये नक्षत्रशद्धा. स्तेभ्यः सप्तम्यन्तेभ्यः परस्य भाणो जातेऽर्थे बहुलं लुप् स्यान्नानि / अभिजिति