________________ सिद्धहैमबृहत्पक्रिया. [तद्धित 1516 प्रादृष इकः / / 6 / 3 / 99 // तत्रेति सप्तम्यन्तात् प्रादृष्शब्दाजातेऽर्थे इकः प्रत्ययः स्यात् / एण्यस्यापवादः / प्रापि जातः प्राषिकः। 1617 नाम्नि शरदोऽकञ् // 6 / 3 / 100 / शरदित्येतस्मात्सप्तम्यन्ताज्जातेऽर्थेऽकञ् प्रत्ययः स्यान्नान्नि-प्रकृतिप्रत्ययसमुदायश्चेत्कस्यचिन्नाम / ऋत्वणोऽपवादः / शारदका दर्भा मुद्गा वा / दर्भविशेषाणां मुद्गविशेषाणां चेयं संज्ञा / नाम्नीति किम् / शारदं सस्यम् / 1518 सिन्ध्वपकरात् काणौ // 6 / 3 / 101 // सिन्धु अपकर इत्येताभ्यां सप्तम्यन्ताभ्यां जातेऽर्थे क अण् इत्येतौ प्रत्ययौ स्याताम् नाम्नि / सिन्धोः कच्छाद्यकत्रणोः अपकराच्चौत्सर्गिकाणोऽपवादः / वचनभेदायथासंख्याभावः / सिन्धौ जातः सिन्धुकः सैन्धवः / अपकरे कचवरे जातः अपकरकः आपकरः। नानीत्येव / सैन्धवको मनुष्यः / नाम्नीत्यधिकारः 'कालादेय ऋणे' इति सूत्रं यावत् / अन्ये तु नाम्नीत्यधिकारं नेच्छन्ति / 1519 पूर्वाणापराह्णाामूलप्रदोषावस्करादकः // 6 // 3 // 102 // तत्रेति सप्तम्यन्तेभ्यः पूर्वाह्लादिभ्यो जातेऽर्थेऽकः प्रत्ययः स्यान्नाम्नि / इकणादेरपवादः / पूर्वाणे जातः पूर्वाह्नकः अपराणकः / अत्रेकण्तनटोरपादः / आर्द्रकः / मूलकः / अत्र भाणः / प्रदोषकः / अत्रेकणणोः / अवस्करकः। अत्रौत्सर्गिकाणः / नाम्नि इत्येव / पौर्वाणिकम् / पूर्वाह्णतनम् / आपराणिकम् / अपराहणेतनम् / आर्द्रम् / मौलम् / प्रादोषिकम् / प्रादोषम् / आवस्करम् / केनैव सिद्धेऽकविधानमाद्रिकेत्येवमर्थम् / अन्यथा खट्वाका खट्वका खट्विकेतिवत् के रूपत्रयं स्यात् / 1520 पथः पन्थ च // 6 // 3 // 103 // पथिन्शब्दात् सप्तम्यन्ताज्जातेऽर्थेऽकः प्रत्ययः स्यात् पथिन्शब्दस्य च पन्थादेशो नान्नि / अणोऽपवादः / पथि जात; पन्थकः। . 1921 अश्व वाऽमावास्यायाः // 63 / 104 // अमावास्यांशब्दात सप्तम्यन्ताज्जातेऽर्थेऽकारोऽकश्च प्रत्ययौ वा स्यातां नाम्नि / सन्ध्याधणोऽपवादः। अमा