________________ प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. 309 1511 तत्र कृतलब्धक्रीतसंभूते // 6 // 3 // 94 // अणादय एयणादयश्च सविशेषणा अनुवर्तन्ते / तत्रेति सप्तम्यन्तात् कृते लब्धे क्रीते संभूते चार्थे यथायोगमणादय एयणादयश्च प्रत्ययाः स्युः / यदन्येनोत्पादितं तत्कृतम् / यत्प्रतिग्रहादिना प्राप्तं तलब्धम् / यन्मूल्येन स्वीकृतं तत्क्रीतम् / यत्संभाव्यते संमाति वा तत्संभूतम् / सुघ्ने कृतो लब्धः क्रीतः संभूतो वा सौनः / एवं माथुरः / अत्राण / औत्सः। उत्साद्यञ् / बाह्यः। बाहीकः। बहिषष्टीकण च / नादेयः / नधादित्वादेयण / राष्ट्रियः / राष्ट्रादियः / पारावारीणः / पारावारादीनः। तत्रेति किम् / देवदत्तेन क्रीतः / कृतलब्धक्रीतसंभूत इति किम् / शयने शेते / आसन आस्ते। 1512 कुशले 6 / 3 / 98 // तत्रेति सप्तम्यन्तात् कुशलेऽर्थे यथाविहितमणादय एयणादयश्च प्रत्ययाः स्युः / सुन्ने कुशलः सौनः / माथुरः / नादेयः। 1513 पथोऽकः // 6 // 3 / 96 // तत्रेति सप्तम्यन्तात् पथिन्शब्दात् कुशलेsर्थेऽकः प्रत्ययः स्यात् / अणोऽपवादः / पथि कुशलः पथकः / 1514 कोऽइमादेः 6 / 3 / 97 // तत्रेति सप्तम्यन्तेभ्योऽश्मन् इत्यादिभ्यः कुशलेऽर्थे कः प्रत्ययः स्यात् / अणादेरपवादः / अश्मनि कुशलः अश्मकः / अशनिकः। आकर्षकः / अश्मादय उपचारात्तद्विषयायां क्रियायां वर्तमानाः प्रत्ययमुत्पादयन्ति / तत्रैव कुशलार्थयोगात् / प्रत्ययान्तरकरणमिकारोकारान्तशब्दार्थम् / अन्यथा तेषु अनिष्ट रूपमापद्येत / 1515 जाते // 6 / 3 / 98 // तत्रेति सप्तम्यन्ताज्जातेऽर्थे यथाविहितमणादय एयणादयश्च प्रत्ययाः स्युः / सुघ्ने जातः सौनः। एवं माथुरः / अण / औदपानः। अञ् / औत्सः। बाह्यः / बाहीकः / व्यटीकणौ / कालेयः / आग्नेयः / कल्यग्नेरेयण् / स्त्रैणः / पौंस्नः / प्राग्वतः स्त्रीपुंसान्नञ् स्नञ् / नादेयः / एयण् / राष्ट्रियः / मुत्पत्तिर्जातस्यार्थ इति कृतादिभ्यो भेदः /