________________ 308 सिद्धहैमबृहत्प्रक्रिया. [तद्धित - 1506 भर्तुसंध्यादेरण् // 6 // 3 // 89 // में नक्षत्रं तद्वाचिभ्य ऋतुवाचिभ्यः / संध्यादिभ्यश्च कालवाचिभ्यः शेषेऽर्थेऽण् प्रत्ययःस्यात् / इकणोऽपवादः / पुष्येण चन्द्रयुक्तेन युक्तः कालः पुष्यः / चन्द्रयुक्तेत्यादिनाण् / तस्य लुप् / पुष्ये भवः पौषः / ऋतु-ग्रैष्मः। ऋतोणित् प्रत्ययस्तदवयवादेरपि भवति पूर्वग्रैष्मः / अपरशैशिरः / अंशाहतोः इत्युत्तरपदद्धिः / सन्ध्यादि-सान्ध्यः / आमावास्यः / एकदेशविकृतस्यानन्यत्वादमावास्याशब्दादपि भवति / आमावस्यः / अणग्रहणं स्वातिराधा पौर्णमासीभ्य ईयबाधनार्थम् / यथाविहितमित्युच्यमाने दोरीय इतीयः प्राप्नोति / कालेभ्य इत्येव / स्वातेरिदमुदयस्थानं स्वातीयम् / शश्वच्छदस्य संध्यादित्वेऽपि ऋवर्णोवर्णादिति सूत्रेऽशवदिति प्रतिषेधात् तस्मादिकणपि / शाश्वतम् / शाश्वतिकम् / 1507 संवत्सरात् फलपर्वणोः // 6 // 3 / 90 // संवत्सरशद्वात् फले पर्वणि च शेषेऽर्थेऽण् प्रत्ययः स्यात् / सांवत्सरं फलं पर्व वा / फलपर्वणोरिति किम् / सांवत्सरिकं श्राद्धम् / .. 1508 हेमन्ताद्वा तलु च // 6 // 3 / 91 // हेमन्तशब्दातुविशेषवाचिनः शेषेऽर्थेऽण वा स्यात्, तत्सनियोगे च तकारस्य लुग्वा / नित्यमणि प्राप्ते विभाषा / तथा च त्रैरूप्यम् / हैमनम् / हैमन्तम् / हैमन्तिकम् / तदन्तविधिना पूर्वहै मनम् / अंशाहतोरित्युत्तरपदवृद्धिः / 1509 प्रावष एण्यः // 6 / 3 / 92 // प्रादृष् इत्येतस्मात् ऋतुवाचिनः शेषेऽथै एण्यः प्रत्ययः स्यात् / अणोऽपवादः / प्राषि भवः प्राटषेण्यः / जाते तु परत्वादिक एव / प्रादृषि जातः प्राषिकः / एण्य इति प्रत्यये मर्धन्यो णकारो निनिमित्तकः प्राटषेण्ययतीति ण्यन्तात् किपि प्रादृषेण इति मूर्धन्यार्थः / 1810 स्थामाजिनान्ताल्लुप् // 6 / 3 / 93 // स्थामन्शब्दान्तादजिनान्ताच परस्य शैषिकस्य प्रत्ययस्य लुप् स्यात् / अश्वत्थामनि भवो जातो वा अश्वत्थामा / अः स्थान इत्यः / तस्य लुप् / सिंहाजिने भवो जातो वा सिंहाजिनः / उलाजिनः / तृकाजिनः। भवार्थस्यैव लुपमिच्छन्त्यन्ये तन्मते अश्वत्थाम्नोऽयं तत आगतो वा अश्वत्थामः / एवं सैंहाजिनः / वार्काजिनः इत्यादौ न भवति /