SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ 307 प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 1501 श्वसस्तादिः // 6 // 3 // 84 // श्वस् इत्येतस्मात् कालवाचिनः शेषेऽर्थे इकण प्रत्ययो वा स्यात् स च तादिः। शौवस्तिक;। पक्षे 'ऐषमोह्यः श्वसो वा' इति त्यच / श्वस्त्यम् / तत्रापि वाग्रहणात् पक्षे सायमित्यादिना तनट् / श्वस्तनम् / 1502 चिरपरुत्परारेस्त्नः // 6 / 3 / 85 // चिरपरुत्परारि इत्येतेभ्यः कालवाचिभ्यः शेषेऽर्थे त्नः प्रत्ययो वा स्यात् / चिरत्नम् / परुत्नम् / परारित्नम् / परारितनम् / पक्षे 'सायम् ' इत्यादिना तनट् / चिरंतनम् / परुत्तनम् / परुत्परारिभ्यां विकल्पं नेच्छन्त्यन्ये / परारेस्तु रिलोप इत्येके / परात्नः। केचित्तु परुत्परार्योस्तनटयन्त्यस्वरात् परं म्वागममिच्छन्ति परुंतनम् / परारितनम् / 1503 पुरो नः // 6 // 3 // 86 // पुराशद्वात् कालवाचिनोऽव्ययाच्छेषेऽर्थे नः प्रत्ययो वा स्यात् / पुरा भवं पुराणम् / पुरातनम् / 1504 पूर्वाहणापराणात्तनट् // 6 // 3 // 87 // एताभ्यां कालवाचिभ्यां शेषेऽर्थे तनट् प्रत्ययो वा स्यात् / 'वर्षाकालेभ्यः' इति नित्यमिकणि प्राप्ते विकल्पः। तेन पक्षे सोऽपि भवति / पूर्वाह्न जातो भवो वा पूर्वाह्नेतनः, पूर्वा णतनः। अपराहणेतनः, अपरागतनः / कालात्तनेत्यादिना वा सप्तम्या अलुप् / पूर्वाणे जयी पूर्वाहणतनः / अपराह्णतनः। अत्र जयिनि वाच्ये तत्र व्यवस्थितविभाषाविज्ञानात् नित्यं सप्तम्या लुप् / पक्षे पौर्वाणिकः। आपराणिकः / टंकारो ङन्यर्थः / पूर्वाहणेतनी / अपराहणेतनी / 1505 सायचिरंप्राणेप्रगेऽव्ययात् // 6 // 388 // योगविभागाद्वेति निवृत्तम्। सायं चिरं प्राणे प्रगे इत्येतेभ्योऽव्ययेभ्यश्च कालवाचिभ्यः शेषेऽर्थे तनट प्रत्ययो नित्यं स्यात् / साये भवं सायन्तनम् / चिरे भवं चिरन्तनम् / अत एव निर्देशान्मान्तत्वं निपात्यते / प्राणैतनम् / प्रगेतनम् / अनयोरेकारान्तत्वम् / अव्ययदिवातनम् / दोषातनम् / काले भ्य इत्येव / स्वर्भवं सौवम् / सायंचिरंमाणेगे इत्यव्ययेभ्योऽव्ययादित्येव सिद्धे सायचिरप्राणप्रगशब्देभ्यस्तनड्विधानं कालेकण्वाधनार्थम् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy