________________ सिद्धहैमबृहत्पक्रिया. [तद्धित 1495 समानपूर्वलोकोत्तरपदात् // 6 // 3 // 79 // समानपूर्वपदेभ्यो लोकशब्दोत्तरपदेभ्यश्च शेषेऽर्थे इकण प्रत्ययः स्यात् / समानग्रामे कृतो भवो वा सामानग्रामिकः। इहलोके कृतो भवो वा ऐहलौकिकः। पारलौकिकः। सावलौकिकः। योगद्वयेऽपि भवार्थ एव प्रत्यय इत्यन्ये / 1496 बर्षाकालेभ्यः // 6 // 3 // 80 // वर्षाशब्दात् कालविशेषवाचिभ्यश्च शेषेऽर्थे इकण प्रत्ययः स्यात् / अणपवादः। दोरीयमपि परत्वाद् बाधते। वर्षासु भवो वार्षिकः / ऋतोर्णित् प्रत्ययस्तदवयवादेखन्तादपि भवत्यभिधानात् / तेन पूर्वासु वर्षासु भव इत्यत्रेकणि कृते। -- 1497 अंशाहतोः // 7 / 4 / 14 // अंशवाचिनः शब्दात् परस्य ऋतुवाचिन उत्तरपदस्य स्वरेष्वादेः स्वरस्य स्थाने णिति तद्धिते परे वृद्धिः स्यात् / इत्युत्तरपदवृद्धिः। पूर्ववार्षिकः। अपरवार्षिकः। कालवाचिभ्यः-मासिकः। आर्धमासिकः। बर्षाग्रहणमृत्वणबाधनार्थम् / कालशब्दः कालविशेषवाची। 'भर्तुसंध्यादेरण' इत्यत्र संध्यादिग्रहणात् / स्वरूपग्रहणे हि काललक्षणेकणवाधकं संध्यादिग्रहणमनर्थकं स्यात् / बहुवचनं तु यथाकथंचित् कालवृत्तिभ्यः प्रत्ययमापणार्थम् , निशासहचरितमध्ययनं निशा प्रदोषसहचरितं प्रदोषः तत्र जयी नैशिकः पादोषिकः। कदम्बपुष्पसहचरितः कालः कदम्बपुष्पं, बीहिपलालसहचरितः कालो व्रीहिपलालम् , तत्र देयमृणं कादम्बपुष्पिकं त्रैहिपलालिकम् / 1498 शरदः श्राद्धे कर्मणि // 6 // 3 // 81 // शरच्छब्दात् कालवाचिनः श्राद्ध कर्मणि-पितृकार्ये शेषेऽर्थे इकण स्यात् / ऋत्वणोऽपवादः / शारदिक श्राद्धम् / कर्मणीति किम् / शारदः श्राद्धः। श्रद्धावानित्यर्थः / श्राद्ध इति किम् / शारदं विरेचनम् / 1499 नवा रोगातपे // 6382 // शरच्छद्रात कालवाचिनो रोगे आतपे च शेषेऽर्थे इकण् प्रत्ययो वा स्यात्। ऋत्वणोऽपवादः। शारदिकः शारदो वा रोगः। शारदिकः शारद आतपः / रोगातप इति किम् / शारदं दधि / 1500 निशाप्रदोषात् // 6 // 3 // 83 // निशाप्रदोषशद्धाभ्यां कालवाचिभ्यां शेषेऽर्थे वर्षाकालेभ्य इति नित्यं प्राप्त इकण वा स्यात् / नैशिकः नैशः / प्रादोपिकः प्रादोषः।