SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् सिद्धहैमबृहत्मक्रिया. 1489 परावराधमोत्तमादेर्यः // 6 // 3 // 73 // पर अवर अधम उत्तम इत्येतत्पूर्वादर्धशद्धाच्छेषेऽर्थे या प्रत्ययः स्यात् / इकणोऽपवादः / परायम् / अवराय॑म् / अधमार्यम्। उत्तमार्यम् / परावरयोः दिक्शद्वत्वेऽपि परखादयमेव यः। 1490 अमोऽन्तावोधसः // 6 // 374 // अन्त अवस् अधस् इत्येतेभ्यः शेषेऽर्थेऽमः प्रत्ययः स्यात् / अन्तमः। अवमः। अधमः। अकारादिखमवोधसोऽन्त्यस्वरादिलोपार्थम् / 1491 पश्चादाद्यन्ताग्रादिमः // 6 // 37 // पश्चात् आदि अन्त अग्र इत्येतेभ्यः शेषेऽर्थे इमः प्रत्ययः स्यात् / पश्चिमः। अत्राव्ययत्वादन्त्यस्वरादिलोपः। आदिमः। अन्तिमः अग्रिमः / आद्यन्ताभ्यां भवादन्यत्रायं विधिः। भवे तु परत्वादिगादिय एव / 1492 मध्यान्मः // 6376 // मध्यशद्धाच्छेषेऽर्थे मः प्रत्ययः स्यात् / मध्यमः / भवे दिनणादिर्वक्ष्यते / ततोऽन्यत्रायं विधिः। 1493 मध्य उत्कर्षापकर्षयोरः॥६॥३७७॥ उत्कर्षापकर्षयोर्मध्ये वर्तमानान्मध्यशब्दाच्छेषेऽर्थे अ इत्ययं प्रत्ययः स्यात् / मापवादः। नात्युत्कृष्टो नात्यपकृष्टो मध्यपरिमाणो मध्यो वैयाकरणः। मध्या स्त्री / यद्यपि मध्यशद्धो मध्यपरिमाणवाचिन्यपि वर्तते तथाप्यवस्थावस्थावतोः स्याद्वादाद् भेदविवक्षायामवस्थावाचिप्रकृतेरवस्थावति प्रत्ययार्थे पूर्वेण मो मा भूदिति वचनम् / 1494 अध्यात्मादिभ्य इकण // 6 // 378 // अध्यात्म इत्यादिभ्यः शेषेऽर्थे इकण प्रत्ययः स्यात् / अध्यात्म भवमाध्यात्मिकम् / एवमाधिदैविकम् / आधिभौतिकम् / अनुशतिकादिखादनयोरुभयपदद्धिः। औदमिकः। औधंदमिकः। और्ध्वदेहिकः / और्वदेहिकः। अत एव पागदू शब्दस्य दमदेहयोर्वा मोऽन्तः। केचिदूर्ध्वदमोर्ध्वदेहावनुशतिकादिपु पठन्त उभयपदवृद्धिमिच्छन्ति। और्ध्वदामिकः। और्ध्वदैहिकः। ऊर्ध्वमौहूर्तिकः। अत्र 'सप्तमी चोर्ध्वमौहूर्तिके' इति ज्ञापकादुत्तरपदस्यैव वृद्धिः। अकस्मात् हेतुशून्यः कालः तत्र भवमाकस्मिकम् / अमुष्मिन् परलोके भवम् आमुष्मिकम् / एवमामुत्रिकम् / पारत्रिकम् / इह भवमैहिकम् / शैषिकम् / पाठसामर्थ्यात् सप्तम्या अलुप् / अध्यात्मादयः प्रयोगगम्याः।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy