________________ 304 सिद्धहैमबृहत्मक्रिया. [तद्धित एषां चरणानां माध्यमाश्चरणाः। निवासादिति किम्। पृथिवीमध्यादागतो मध्यमीयः कठः। चरण इति किम् / पृथिवीमध्यं निवासोऽस्य मध्यमीयः शूद्रः। 1482 वेणुकादिभ्य ईयण ॥६।३।६६॥वेणुक इत्येवमादिभ्यो यथायोगं देशवाचिभ्यः शेषेऽर्थे ईयण प्रत्ययः स्यात् / वैणुकीयः / वैत्रकीयः / बहुवचनं प्रयोगानुसरणार्थम् / __1483 वा युष्मदस्मदोऽजीनी युष्माकास्माको चास्यैकत्वे तु शेषेऽर्थे अञ् ईनञ् इत्येतौ प्रत्ययौ वा स्याताम् तत्संनियोगे चानयोर्यथासंख्यं युष्माकास्माको, एकत्वविशिष्टे त्वर्थे वर्तमानयोस्तवकममकावादेशौ स्याताम् / प्रत्ययौ प्रति यथासंख्यं नास्ति वचनभेदात् / युष्माकमयं युवयोर्वा यौष्माकः / यौष्माकीणः। अस्माकमयमावयोर्वा आस्माकः। आस्माकीनः / पक्षे त्यदादित्वेन दुसंज्ञत्वादीयः / युष्मदीयः / अस्मदीयः। एकत्वे तु तवकममकम् / तवायं तावकः / ममायं मामकः / तावकीनः / मामकीनः / पक्षे त्वदीयः / मदीयः / 1484 द्वीपादनुसमुद्रं ण्यः // 6 // 3 // 68 समुद्रसमीपे यो द्वीपस्तद्वाचिनः शेषेऽर्थे ण्यः प्रत्ययः स्यात् / कच्छाद्यकशोरपवादः / द्वैप्यो मनुष्यः। द्वैप्यमस्य हसितम् / द्वैप्यम् / अनुसमुद्रमिति किम् / अनुनदि यो द्वीपस्तस्मात् द्वैपको व्यासः / द्वैपकमस्य हसितम् / द्वैपम्। 1485 अर्धाद्यः // 6 // 3 // 69 // अर्धशब्दाच्छेषेऽर्थे यः प्रत्ययस्यात् / अय॑म् / 1486 सपूर्वादिकण् // 6 // 370 // सपूर्वपदार्धशब्दात् शेषेऽर्थे इकण् प्रत्ययः स्यात् / पौष्कराधिकः / वैजयाधिकः। -- 1487 दिक्पूर्वपदात्तौ // 6 // 371 // दिक्पूर्वपदादर्धशब्दाच्छेपेऽर्थे तौय इकण इत्येतौ प्रत्ययौ स्याताम् / पूर्वार्ध्यम् / पौर्वाधिकम् / 1488 ग्रामराष्ट्रांशादणिकणौ // 6 // 3 // 72 // ग्रामराष्ट्रैकदेशवाचिनोऽर्धशब्दादिक्पूर्वात् शेषेऽर्थेऽण् इकण इत्येतो प्रत्ययौ स्याताम् / यापवादौ / ग्रामस्य राष्ट्रस्य वा पूवार्धे भवः पौर्वार्धः। पौर्वाधिकः / दाक्षिणार्धः। दाक्षिणाधिकः।