________________ 302 सिद्धहैमबृहत्मक्रिया. [तद्धित सवार्थ वचनम् / तथा च विकल्पः सिद्ध एव / युगन्धरात्तु विभाषा / नृनृस्थयोस्तु कुरोः परत्वादकमेव / कौरवको मनुष्यः कौरवकमस्य हसितम् / 1470 साल्वाद्गोयवाग्वपत्तौ // 6 // 3 // 54 // साल्वशब्दाद्देशवाचिनो गवि यवाग्वां पत्तिवर्जिते च मनुष्ये शेषेऽर्थेऽकञ् प्रत्ययः स्यात् / साल्वको गौः। साल्विका यवागूः। साल्वको मनुष्यः। गोयवाग्वपत्ताविति किम् / साल्वा बीहयः / साल्वः पत्तिः। राष्ट्रेभ्योऽकवि कच्छाधणा बाधिते गोयवागग्रहणं प्रतिप्रसवार्थम् / अपत्तीति पत्तिप्रतिषेधात् तत्सदृशे मनुष्ये विधिः। तत्र चोत्तरेण सिद्ध एवाकनि नरि नियमार्थमपत्तिग्रहणम् / एवं च गोयवाग्वोः पत्तिवजिते च मनुष्ये मनुष्यस्थे च हसितादौ साल्वकः साल्व इति च स्थितम् / अयं च विभागः सल्वशब्दस्यादोरपि विज्ञेयः। 1471 कच्छादेनूनृस्थे // 35 // कच्छादिभ्यो देशवाचिभ्यो नरि मनुष्ये नृस्थे मनुष्यस्थे च शेषेऽर्थेऽकञ् प्रत्ययः स्यात् / अणोऽपवादः। काच्छको मनुष्यः। काच्छकमस्य हसितम् / सैन्धवको मनुष्यः / सैन्धवकमस्य हसितम् / नृनृस्थ इति किम् / काच्छो गोः। सैन्धवं लवणम् / 1472 कोपान्त्याचाण् // 6 // 3 // 56 // देशादित्येव वर्तते न नृनृस्थ इति / कोपान्त्यात् कच्छादेश्च देशवाचिनः शेषेऽर्थेऽण प्रत्ययः स्यात् / इकणकबोरपवादः। कोपान्त्य-ऋषिका जनपदः तेषु जातः आर्षिकः / कच्छादि-काच्छः / सैन्धवः। अथाण्ग्रहणं किमर्थम् / यो हि अन्येन बाधितो न प्रामोति तदर्थमिदं स्यात् स चाणेव / न चानन्तरोऽकमेव स्यादित्याशंकनीयम् / एवं हि पूर्वमकविधानम् अनर्थकं स्यात् / नैवम् / असत्याग्रहणे इक्ष्वाकोरुवर्णलक्षण इकण स्योत् / स हि ततो राष्ट्राका बाधितः। 1473 गतॊत्तरपदादीयः // 6 // 357 // गर्वोत्तरपदाद्देशवाचिनः शेषेऽर्थे ईयः प्रत्ययः स्यात् / अणोऽपवादः। श्वाविद्गर्तात्तु वाहीकग्रामलक्षणौ णिकेकणौ परत्वाद् बाधते / श्वाविद्गर्ते भवः श्वाविद्गीयः / वृकगीयः। आभिसारगर्तकः गर्तकः इत्यत्राकञ् 'राष्टेभ्यः' इति 'बहुविषयेभ्य' इति बहुवचनसामर्थ्यात् भवतीत्युक्तम् / उत्तरपदग्रहणं बहुमत्ययपूर्वनिरासार्थम् / बाहुगतः /