SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ 300 सिद्धहैमबृहत्मक्रिया. . [तद्धित आभिसारकः। आदर्श आदर्शकः / औषुष्टश्यामायने राष्ट्रावधी अपि राष्ट्रे / औषुष्टे औषुष्टकः। श्यामायने श्यामायनक;। बहुवचनमकत्रः प्रकृतिबहुत्वं द्योतयदपवादविषयेऽपि प्रापणार्थम् / तेनेहापि भवति। आभिसारगर्तकः / अत्र गर्वोत्तरपदलक्षण ईयो न भवति / राष्ट्रसमुदायो न राष्ट्रग्रहणेन गृह्यते इतीह न भवति काशिकोशलीयः। 1459 बहुविषयेभ्यः // 6 // 3 // 45 // दोरिति निवृत्तम् योगविभागात् / अतःपरं दोरदोश्च विधानम् / देशादिति तु वर्तते / राष्ट्रेभ्यो-देशेभ्यो बहुत्व विषयेभ्यः शेषेऽर्थेऽकञ् प्रत्ययः स्यात् / अणाद्यपवादः। अङ्गेषु जात आङ्गकः। वङ्गेषु तो वाङ्गकः। विषयग्रहणमनन्यत्र भावार्थम् / तेन य एकत्वद्वित्वयोरपि वर्तते ततो मा भूत् / वर्तनी च वर्तनी च वर्तनी च वर्तन्यः, तासु भवो वार्तनः। बहुवचनमपवादविषयेऽपि प्रापणार्थम् / त्रिगर्तेषु त्रैगर्त्तकः। अत्र गर्योत्तरपदलक्षण ईयो बाध्यते / सुपञ्चालेषु भव इत्यत्र चानेनाकभि कृते / 1460 सुसर्वार्धाद्राष्ट्रस्य // 7 / 4 / 15 // सु सर्व अर्ध इत्येतेभ्यः परस्य राष्ट्रवाचिन उत्तरपदस्य ब्णिति तद्धिते परे स्वरेष्वादेः स्वरस्य वृद्धिः स्यात् / सुपाञ्चालकः / सर्वपाञ्चालकः / अर्धपाञ्चालकः / राष्ट्रस्येति किम् / सुगन्धाः पण्यमस्य सौगन्धिकः। 1461 अमद्रस्य दिशः॥४॥१६॥ दिग्वाचिनः परस्य राष्ट्रवाचिनो मद्रशब्दवर्जितस्य णिति तद्धिते परे स्वरेष्वादेः स्वरस्य वृद्धिः स्यात् / पूर्वपाञ्चालकः / अपरपाञ्चालक: / दक्षिणपाश्चालकः। उत्तरपाञ्चालकः। अमद्रस्येति किम् / पौर्वमद्रः / दिश इति किम् / पूर्व पञ्चालानां पूर्वपश्चालाः। अंशिसमासः। तेषु भवः पौर्वपञ्चालकः। अवयववृत्तेरपि पूर्वशब्दस्य दिशि दृष्टत्वेन दिक्शब्दत्वात् तदन्तविधौ सति बहुविषयेभ्य इत्यकञ् / एके त्वस्य दिक्शब्दत्वं नेच्छन्ति / तन्मते तदन्तविध्यभावेऽणेव / पौर्वपञ्चालः / 1462 धूमादेः // 6 // 3 // 46 // देशादिति वर्तते / धूमादिभ्यो देशवाचिभ्यः शेषेऽर्थेऽकम् प्रत्ययः स्यात् / अणायपवादः। धौमकः। पाडण्डकः। 1463 सौषीरेषु कूलात् // 6 // 3 // 47 // सौवीरदेशवाचिन: कूलशब्दाच्छेषेऽर्थेऽकञ् प्रत्ययः स्यात् / कौलकः सौवीरेषु / कौलोऽन्यः /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy