________________ प्रकरणम् ] . सिद्धहैमबृहत्मक्रिया. 299 1453 उवर्णादिकण् // 6 // 3 // 39 // उवर्णान्ताद्देशवाचिनः शेषेऽर्थे इकण प्रत्ययः स्यात् / अणोऽपवादः। परत्वादीयणिकेकणोऽपि बाधते / शबरजम्ब्वां भवः शाबरजम्बुकः। निषादकवी भवः नैषादकर्षकः। यस्तु प्राग्ग्रामस्तस्मादुत्तरेण भवति / आत्रीतमायौ भवः आत्रीतमायकः जिनुषु जैह्नवक इति परत्वाद् योपान्त्यलक्षणो राष्ट्रलक्षणश्चाका / ऐक्ष्वाक इत्यत्र तु कोपान्त्यलक्षणोऽण / उवर्णादिति किम् / दैवदत्तः। देशादित्येव / पटोश्छात्राः पाटवाः। 1454 दोरेव प्राचः // 6 // 3 // 40 // शरावत्या नद्याः प्राच्यां दिशि देशः माग्देशः तद्वाचिन उवर्णान्ताद् दुसंज्ञकादेव इकण प्रत्ययः स्यात् / आषाढजम्ब्वां भव आषाढजम्बुकः / नापितवास्तौ जातः नापितवास्तुकः। पूर्वेण सिद्धे नियमार्थ वचनम् / इह न भवति / मल्लवास्तुः प्राग्ग्रामः माल्लवास्तवः / एवकार इष्टावधारणार्थः / दोः पाच एवेति नियमो मा भूत् / 1455 ईतोऽकञ् // 6 // 3 // 41 // दोर्देशात् पाच इति च वर्तते / ईकारान्तात् पारदेशवाचिनो दुसंज्ञकाच्छेषेऽर्थेऽकञ् प्रत्ययः स्यात् / ईयस्यापवादः / काकन्यां भवः काकन्दक। माकन्यां भवः माकन्दकः / माच इत्येव / दात्तामित्र्यां भवः दात्तामित्रीयः। 1456 रोपान्त्यात् // 6 // 3 // 42 // रेफोपान्त्यात् माग्देशवाचिनो दुसंज्ञकाच्छेषेऽर्थेऽकञ् प्रत्ययः स्यात् / ईयस्यापवादः / पाटलिपुत्रकः। ऐकचक्रकः / __ 1457 प्रस्थपुरवहान्तयोपान्त्यधन्वार्थात् // 6 // 3 // 43 // दोर्देशादिति च वर्तते / प्रस्थ पुर वह इत्येतदन्तात् यकारोपान्त्याद्धन्ववाचिनश्च देशवाचिनो दुसंज्ञकाच्छेषेऽर्थेऽकञ् प्रत्ययः स्यात् / धन्वन्शब्दो मरुदेशवाची / मालाप्रस्थकः। नान्दीपुरकः। पैलुवहकः। सांकाश्यकः। पारधन्वनि भवः पारेधन्वकः, अपारेधन्वकः। सुपचष्टे डे सुप्रख्येन निर्वृत्त इत्यणि सौपख्ये भवः सौमख्यीय इति तु गहादित्वात् / एवं कामप्रस्थीयः / पुरग्रहणमप्राच्यार्थम् / प्राच्यादि रोपान्त्यत्वेनैव सिद्धम् / अत एव पाच इति नानुवर्तते / ईयबाधनार्थ वचनम् / 1458 राष्ट्रभ्यः // 6 // 3 // 44 // दोर्देशादिति च वर्तते / राष्ट्रेभ्यो देशेभ्यो दुसंज्ञकेभ्यः शेषेऽर्थेऽकञ् प्रत्ययः स्यात् / ईयस्यापवादः। आभिसारे भव