SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ 298 [तद्धित सिद्धहैमबृहत्पक्रिया. 1449 वाहीकेषु ग्रामात् // 6 // 3 // 36 // वाहीकदेशे ग्रामवाचिभ्यो दुसज्ञकेभ्यः शेषेऽर्थे णिक इकण इत्येतौ प्रत्ययौ स्याताम् / कारन्तपिकः। कारन्तपिका कारन्तपिकी / नापितवास्तुकः इत्यत्र तु परत्वात् ' उवर्णादिकण इतीकण / वातानुप्रस्थक; नान्दीपुरकः कौक्कुटीवहकः दासरूप्यकः इत्येतेषु 'प्रस्थपुरवहान्तयोपान्त्यधन्वार्थात् ' इति परत्वादकन् / सौसुकीय इत्यत्र कोपान्त्यलक्षण ईयोऽपवादत्वाच भवति / कथं मौञ्जीयम् ? मौनं नाम वाहीकावधिरन्यदीयो ग्रामो न वाहीकग्राम इत्येके / अन्ये तु दश द्वादश वा ग्रामा विशिष्टसंनिवेशावस्थाना मौज नामेति ग्रामसमूह एवायं न ग्रामः, नापि राष्ट्रं येन राष्ट्रलक्षणोऽकञ् स्यात् इति मन्यन्ते / दोरित्येव / देवदत्तं नाम वाहीकग्रामः तत्र जातो देवदत्तः। 1450 एदोद्देश एवेयादौ // 6 // 1 // 9 // देश एव वर्तमानस्य यस्य शब्दस्य स्वरेष्वादिः स्वर एकार ओकारो वा भवति स ईयादौ प्रत्यये विधातव्ये दुसंज्ञः स्यात् / इत्यनेन दुसंज्ञायां वाहीकग्रामत्वाच पूर्वेण प्रत्यययोः कृतयोः सैपुरिक; / सैपुरिका / सैपुरिकी / स्कौनगरिकः। स्कौनगरिका / स्कौनगरिकी। सेपुरं स्कोनगरं च वाहीकग्रामौ / देश इति दैववाचकं नन्धध्ययनम् / एवकारोऽन्यत्र वृत्तिव्यवच्छेदार्थः / तेन देशेऽन्यत्र च वर्तमानस्य न भवति / क्रोडं नामोदग्ग्रामस्तत्र भवः क्रौडः / देवदत्त नाम वाहीकग्रामस्तत्र भवो देवदत्तः। क्रोडशब्दः स्वाङ्गेऽपि वर्तते / देवदत्तशब्दः पुंस्यपि क्रियाशब्दथ। ईयादाविति किम् / आयनिबादौ न भवति / 1451 वोशीनरेषु // 6 // 3 // 37 // उशीनरेषु जनपदे यो ग्रामस्तद्वाचिनो दुसंज्ञकाच्छेषेऽर्थे णिकेकणौ प्रत्ययौ वा स्याताम् / आह्वजालिकः। आह्वजालिका / आह्वजालिकी। पक्षे आह्वजालीयः। 1452 वृजिमद्राद्देशात्कः // 6 // 3 // 38 // वृजिमद्रशब्दाभ्यां देशवाचिभ्यां शेषेऽर्थे कः प्रत्ययः स्यात् / राष्ट्राकोऽपवादः। दोरिति निवृत्तम् / वृजिकः। मद्रकः। सुसर्वार्धदिक्शब्देभ्यो जनपदवाचिनः प्रत्ययो भवति / तत्र मद्रात् दिक्पूर्वपदात् 'मद्रादञ्' इत्यञ् विहितः शेषपूर्वपदात्त्वयं भवति / सुमद्रकः इत्यादि / देशादिति किम् / मनुष्यवृत्तेजिमाद्रः।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy