SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ 292 सिद्धहैमबृहत्मक्रिया. [तद्धित 1410 दधन इकण // 6 / 2 / 143 // दधिशद्वात् सप्तम्यन्तात् संस्कृते भक्ष्ये इकण् प्रत्ययः स्यात् / दग्नि संस्कृतं भक्ष्यं दाधिकम् / ननु च संस्कृतार्थे इकण वक्ष्यते तेनैव सिद्धम् / न सिद्धयति / दध्ना हि तत्संस्कृतं यस्य दधिकृतमेवोत्कर्षाधानम् / इह तु दधि केवलमाधारभूतं द्रव्यान्तरेण तु लवणादिना संस्कारः क्रियते / 1411 वोदश्वितः // 6 / 2 / 144 // उदश्विच्छद्वात् सप्तम्यन्तात् संस्कृते भक्ष्ये इकण् प्रत्ययो वा स्यात् / उदकेन श्वयति उदश्चित् / अत एव निर्देशाद् यदभावः। तत्र संस्कृतं भक्ष्यम् औदश्वित्कम् / औदश्वितम् / 1412 कचित् // 6 / 2 / 145 // अपत्यादिभ्योऽन्यत्राप्यर्थे कचिद्यथाविहितं प्रत्ययः स्यात् / चक्षुषा गृह्यते चाक्षुष रूपम् / दृषदि पिष्टा दार्षदाः सक्तवः। उदूखले क्षुण्ण औदूखलो यावकः / चतुर्दश्यां दृश्यते चातुर्दशं रक्षः / चतुभिरुह्यते चातुरं शकटम् / अश्वैरुह्यते आश्वो रथः / संपति युज्यते सांपतम् / सांप्रतः / इति श्रीसिद्धहैमबृहत्पक्रियायां तद्धितप्रकरणे रक्ताधर्थकाः समाप्ताः अथ शैषिकाः 1413 शेषे // 6 // 3 // 1 // अधिकारोऽयम् / यदित ऊर्ध्वमनुक्रमिष्यामः शेषेऽर्थे तद्वेदितव्यम् / उपयुक्तादन्यः शेषः / अपत्यादिभ्यः संस्कृतभक्ष्यपर्यन्तेभ्यो योऽन्योऽर्थः स शेषः। तस्येदंविशेषा ह्यपत्यसमूहादयः तेषु वक्ष्यमाणा एयणादयो मा भूवनिति शेषाधिकारः क्रियते। किं च सर्वेषु पार जितात् कृतादिषु वक्ष्यमाणाः प्रत्यया यथा स्युः अनन्तरेणैवार्थनिर्देशेन कृतार्थता मा विज्ञायि इति साफल्यार्थ शेषवचनम् / 1414 नद्यादेरेयण // 6 // 3 // 2 // नद्यादिभ्यो यथासंभवं प्राग्जितीये शेषेऽर्थे एयण प्रत्ययः स्यात् / नद्यां जातो भवो वा नादेयः। माहेयः। वानेयः। वन्य इति तु साधौ यः। शेष इति किम् / नदीनां समूहो नादिकम् / इतः प्रभृति
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy