SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ 290 सिद्धहैमबृहत्पक्रिया. [तद्धित 1398 वेदेन्ब्राह्मणमत्रैव // 6 / 2 / 130 // प्रोक्तग्रहणमिहानुवर्तते / तच्च प्रथमान्तं विपरिणम्यते / प्रोक्तप्रत्ययान्तं वेदवाचि इनन्तं च ब्राह्मणवाची अत्रैव-वेत्त्यधीते वेत्येतद्विषये एव प्रयुज्यते / तेन स्वातन्त्र्यं उपाध्यन्तरयोगो वाक्यं च निवर्तते / वेद-कठेन प्रोक्तं वेदमधीयते विदन्ति वा कठाः / एवं कलापिना कालापाः / इत्यादि / इनन्तं ब्राह्मणवाची-ताण्डयेन प्रोक्तं ब्राह्मणं विदन्त्यधीयते वा ताण्डिनः / इन्ग्रहणं किम् / याज्ञवल्क्येन प्रोक्तानि ब्राह्मणानि याज्ञवल्क्यानि / 'शकलादेर्यत्रः' इत्यत्र / ब्राह्मणमिति किम् / पिङ्गेन प्रोक्तः पैङ्गी कल्पः / ब्राह्मणं वेद एव तत्र वेद इत्येव सिद्धे अनिनन्तस्य नियमनिवृत्त्यर्थमिन्ब्राह्मणग्रहणम् / प्रोक्तानुवर्तनं किमर्थम् / ऋचः यजूंषि सामानि मंत्रा; वेदः। आरंभसामर्थ्यादवधारणे सिद्धे उभयावधारणार्थमेवकारः। प्रोक्तमत्ययान्तस्यात्रैव वृत्तिर्नान्यत्र तथात्र वृत्तिरेव न केवलस्य मोक्तमत्ययान्तस्यावस्थानम् / अन्यत्र त्वनियमात् कचित्स्वातंत्र्यं भवति / अर्हता प्रोक्तमाहतं शास्त्रम् / कचिदुपाध्यन्तरयोगः / आर्हतं महत्सुविहितमिति / कचिद् वाक्यम् / आईतमधीते / कचिद् वृत्तिः आहेत इति / इह पुनर्नियमायुगपदेव विग्रहः / कठेन प्रोक्तमधीयते कठा इति / 1399 तेन छन्ने रथे // 6 / 2 / 131 // छन्न इति प्रत्ययार्थो रथ इति तस्य विशेषणम् / तेनेति तृतीयान्तात् छन्ने रथेऽभिधेये यथाभिहितं प्रत्ययः स्यात् / वस्त्रेण छन्नो वास्त्रो रथः / एवं काम्बलः / चार्मणः / द्वैपेन चर्मणा द्वैपः। वैयाघेण वैयाघ्रः / रथ इति किम् / वस्त्रेण छन्नः कायः / छन्नशब्देन समन्ताद्वेष्टितं व्याप्तमुच्यते / तेनेह न भवति / पुत्रैः परितो रथः / इह कथमण भवति-न विद्यते पूर्वः पतिर्यस्याः अपूर्वा कुमारी तादृशीं कुमारीमुपपन्नः कौमारः पतिरिति ? तत्र 'भवे' इत्यण भविष्यति / कुमायाँ भवः कौमारः पतिः , धवयोगे तु कौमारी भार्येत्यपि सिद्धम् / 1400 पाण्डुकम्बलादिन् // 6 / 2 / 132 // पाण्डुकम्बलशद्वात्तृतीयान्ताच्छन्ने रथे वाच्ये इन् प्रत्ययः स्यात् / अणोऽपवादः। पाण्डुकम्बलेन छन्नः पाण्डुलम्बली रथः। 1401 दृष्टे सान्नि नानि // 62 / 133 / / दृष्ट इति प्रत्ययार्थस्तस्य सानीति विशेषणम् / तेनेति तृतीयान्ताद् दृष्टं सामेत्यस्मिन् अर्थे यथाविहितं
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy