________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 289 यः पथिन्शद्धस्तदन्ताद्वेत्त्यधीते वेत्यर्थे इकट् प्रत्ययःस्यात् / शतपथिकः, शतपथिकी। षष्टिपथिकः, षष्टिपथिकी। 1393 पदोत्तरपदेभ्य इकः // 6 // 2 / 128 // पदशद्ध उत्तरपदं यस्य तस्मात् पदशद्वात् पदोत्तरपदशद्धाच वेत्त्यधीते / वेत्यर्थे इकः प्रत्यय: स्यात् / पूर्वपदिकः / पूर्वपदिका / उत्तरपदिकः। उत्तरपदिका / पदिकः / पदिका / पदोत्तरपदिकः। पदोत्तरपदिका / बहुवचनं सर्वभङ्गपरिग्रहार्थम् / 1394 पदक्रमशिक्षामीमांसासानोऽकः // 6 / 2 / 126 // पद क्रम शिक्षा मीमांसा सामन् इत्येतेभ्यो तद्वेत्त्यधीते वेत्यर्थेऽकः प्रत्ययः स्यात् / पदकः / क्रमकः / शिक्षकः। मीमांसकः / सामकः / उपनिषच्छदादपीच्छति कश्चित् / उपनिषदकः / के सति शिक्षाका, शिक्षिका, शिक्षका / मीमांसाका, मीमांसिका, मीमांसकेति रूपत्रयं स्यात् / शिक्षिका, मीमांसिकेति चेष्यते / तदर्थमेकवचनम् / ___ 1395 ससर्वपूर्णाल्लुप् // 6 // 2 // 127 // सपूर्वात् सर्वपूर्वाच्च वेत्त्यधीते वेत्यर्थे विहितस्य प्रत्ययस्य लुप् स्यात् / सवातिकमधीते सवार्तिकः। ससंग्रहः / अणो लुप् / सकल्पः। अत्रेकणः। सर्ववेदः। सर्वतन्त्रः। अत्राणः। सर्वविद्यः। अत्रेकणः। कथं द्विवेदः पञ्चव्याकरण इति ? द्विगोरनपत्ये यस्वरादेरिति लुपि भविष्यति। 1396 संख्याकात् सूत्रे // 6 / 2 / 128 // संख्यायाः परो यः कः प्रत्ययो विहितस्तदन्तात् सूत्रे वर्तमानात् नाम्नो वेत्त्यधीते वेत्यर्थे उत्पन्नस्य प्रत्ययस्य लुप् स्यात् / अप्रोक्तार्थ आरंभः / अष्टावध्यायाः परिमाणमस्य अष्टकं सूत्रम् / तद्विदन्ति अधीयते वा अष्टकाः पाणिनीयाः / संख्याग्रहणं किम् / माहावातिकाः / कादिति किम् / चतुष्टयं सूत्रमधीयते चातुष्टयाः। ___ 1397 प्रोक्तात् // 6 // 2 // 129 // प्रोक्तार्थविहितः प्रत्यय उपचारात् प्रोक्त इत्युच्यते / तदन्तान्नान्नो वेत्त्यधीते वेत्यर्थे उत्पन्नस्य प्रत्ययस्य लुप् स्यात् / गोतमेन प्रोक्तं गौतमम् / तद्वेत्त्यधीते वा गौतमः / सुधर्मेण सुधर्मणा वा प्रोक्तं सौधर्म सौधर्मणं वा / ववेत्त्यधीते वा सौधर्मः, सौधर्मणः / स्त्रियां विशेषः / गोतमा सोधर्मा सौधर्मणा स्त्री इत्यादि / अणो लुप्यणन्तत्वाभाशत् डीनं भवति /