________________ 288 सिद्धहैमबृहत्प्रक्रिया. [ तद्धित न्यायादित्वात् सिद्धम् / क्रतु-आग्निष्टोमक। आख्यान-यावक्रीतिकः। आख्यायिका-वासवदत्तिकः। 1388 अकल्पात् सूत्रात् // 6 / 2 / 120 // कल्पशद्ववर्जितात् परो यः सूत्रशद्धस्तदन्ताद्वेत्त्यधीते वेत्यर्थे इकण् प्रत्ययः स्यात् / वार्तित्रिकः। सांग्रहमूत्रिकः। अकल्पादिति किम् / सौत्रः / काल्पसौत्रः / 1389 अधर्मक्षत्रिसंसाङ्गाद्विद्यायाः // 1 / 2 / 121 // धर्म क्षत्र त्रि संसर्ग अङ्ग इत्येतच्छद्धवर्जितात् परो यो विद्याशद्धस्तदन्ताद् वेत्त्यधीते वेत्यर्थे इकण् प्रत्ययः स्यात् / वायसविधिकः। सार्पविधिकः / अधर्मादेरिति किम् / वैद्यः। धार्मविद्यः / क्षात्रवैद्यः / व्यवयवा विद्या त्रिविद्या तां वेत्त्यधीते वा विद्यः / अत्र त्रिविद्याशदस्य कर्मधारयस्यैव ग्रहणं न द्विगोः / तत्र लुपि सत्यामणिकणोविशेषाभावात् / त्रिविद्यः / सांसर्गविद्यः / आङ्गविद्यः। 1390 याज्ञिकौक्थिकलौकायितिकम् // 6 // 2 / 122 // याज्ञिकादयः शद्धा वेत्त्यधीते वेत्यर्थे इकण्प्रत्ययान्ता निपात्यन्ते / याज्ञिकेति यज्ञशद्वाद् याज्ञिक्यशदाचेकण इक्यलोपश्च निपात्यते। यज्ञं याज्ञिक्यं वा वेत्त्यधीते वा याज्ञिकः। औक्थिकेति उक्थशब्दः केषुचिदेव सामसु रूढः / यज्ञायज्ञीयात् परेण यानि गीयन्ते न च तेषु वर्तमानात् प्रत्यय इष्यते किं तर्हि तयाख्याने औथिक्ये उपचारेण वर्तमानात् / उक्थमधीते औक्थिकः / औक्थिक्यमधीते इत्यर्थः। औथिक्यशद्धात्तु प्रत्ययो न भवत्यनभिधानात् / तस्मादपीच्छन्त्येके / औक्थिक्यमधीते औक्थिकः / लौकायितिकेति लोकायतशद्वादिकण यकाराकारस्य चेकारो निपात्यते / लोकायतं वेत्त्यधीते वा लोकायितिकः / लौकायतिका इति तु न्यायादिपाठात् सिद्धम् / 1391 अनुब्राह्मणादिन् // 6 / 2 / 123 // अनुब्राह्मणशद्वाद् वेत्त्यधीते वेत्यर्थे इन् प्रत्ययः स्यात् / ब्रह्मणा प्रोक्तो ग्रन्थो ब्राह्मणम् / ब्राह्मणसदृशो ग्रन्थोऽनुब्राह्मणम् / सदृशार्थेऽव्ययीभावः। तद्वेत्त्यधीते वानुब्राह्मणी / मत्वर्थीयेनैवेना सिद्धे अनभिधानाच इकस्याप्रवृत्तावणबाधनार्थमिनो विधानम् / 1392 शतषष्टेः पथ इकट् / / 6 / 2 / 124 // शत षष्टि इत्येताभ्यां परो