________________ प्रकरणम् ] सिद्धहैमबृहत्यक्रिया. 287 किम् / श्येनपतनमस्याम् / स्त्रीलिङ्गग्रहणादिह न / दण्डपातोऽस्मिन दिवसे। इति. करणानुवृतेः कचिन्न भवति / द्रोणपाकोऽस्यां स्थाल्याम् / केवलाच भावे घन्तान भवति / 1383 श्यैनंपाता तैलंपाता // 6 / 2 / 115 // श्येनशद्धस्य तिलशदस्य च भावघअन्ते पातशब्दे परे मान्तो निपात्यते / प्रत्ययस्तु पूर्वेणैव सिद्धः। श्येनपातोऽस्यां वर्तते श्यैनंपाता / तिलपातोऽस्यां वर्तते तैलंपाता तिथिः क्रियाभूमिः क्रीडा वा। 1384 प्रहरणात् क्रीडायां णः // 6 // 2 // 116 // प्रहरणवाचिनः प्रथमान्तादस्यामिति सप्तम्यर्थे क्रीडायां णः प्रत्ययः स्यात् / दण्डः प्रहरणमस्यां क्रीडायां दाण्डा क्रीडा / एवं मौष्टा पादा क्रीडा / प्रहरणादिति किम् / माला भूषणमस्यां क्रीडायाम् / क्रीडायामिति किम् / खड्गः प्रहरणमस्यां सेनायाम् / यत्राद्रोहेण घातप्रतिघातौ स्यातां सा क्रीडा / भावघोऽस्यां ण इत्यनन्तरो णो नानुवर्तते क्रीडाया अर्थान्तरत्वात् यथा पूर्वसूत्रोपात्तः समूहाद्यर्थेषु ततो यथाविहितमेव प्रत्ययो भवेदितीह पुनर्णग्रहणम् / 1885 तद्वेत्त्यधीते // 6 / 2 / 117 // तदिति द्वितीयान्तात् वेत्ति अधीते वेत्येतयोरर्थयोर्यथाविहितं प्रत्ययः स्यात् / मुहर्त वेत्ति मौहूर्तः। एवमौत्पातः,नैमित्तः। केचित्तु मुहूर्तनिमित्तशद्वौ न्यायादौ पठन्ति तन्मते मौहूर्तिकः। नैमित्तिकः। छन्दोऽधीते छान्दसः। व्याकरणं वेत्त्यधीते वा वैयाकरणः, नैरुक्तः। घटं वेत्ति पटं वेत्तीत्यादावनभिधानान्न भवति / केचित्तु वेदनाध्ययनयोरेकविषयतायामेवेच्छन्ति / तन्मते अग्निष्टोमं यज्ञं वेत्तीत्यादावपि प्रत्ययो न भवति 1386 न्यायादेरिकण् // 6 / 2 / 118 // न्यायादिभ्यो वेत्त्यधीते वेत्यर्थे इकण प्रत्ययः स्यात् / न्याय वेत्त्यधीते वा नैयायिकः / नैयासिकः। 1387 पदकल्पलक्षणान्तक्रत्वाख्यानाख्यायिकात् // 62 / 119 // पदकल्पलक्षणशद्वान्तेभ्यः क्रत्वाख्यानाख्यायिकावाचिभ्यश्च वेत्त्यधीते वेत्यर्थ इकण् प्रत्ययः स्यात् / पदान्त-पौर्वपदिकः / बहुप्रत्ययपूर्वात् पदशद्धान्न भवति अनभिधानात् / कल्पान्त-मातृकल्पिकः। लक्षणान्त-गौलक्षणिकः / लाक्षणिक इति