________________ 286 सिद्धहैमबृहत्मक्रिया. [तद्धित इत्येतेभ्यः साऽस्य देवतेत्यस्मिन् विषये यः प्रत्ययः स्यात् / अणोऽपवादः। वायुदेवताऽस्य वायव्यम् / एवम् ऋतव्यम् , पित्र्यम् , उपस्यम् / 1378 महाराजप्रोष्टपदादिकण // 6 / 2 / 110 // महाराज प्रोष्ठपद इत्येताभ्यां साऽस्य देवतेत्यस्मिन् विषये इकण स्यात् / अणोऽपवादः। महाराजो देवताऽस्य माहाराजिकः / माहाराजिकी। प्रौष्ठपदिकः / पौष्ठपदिकी। 1379 कालाद्भववत् // 6 / 2 / 111 // कालविशेषवाचिभ्यो नामभ्यो यथा भवेऽर्थे प्रत्यया वक्ष्यन्ते तथा साऽस्य देवतेत्यस्मिन् विषये स्युः। वत् सर्वसाहश्यार्थः। तेन यकाभ्यः प्रकृतिभ्यो येन विशेषणेन ये प्रत्यया भवेऽर्थे भवन्ति ताभ्य एव प्रकृतिभ्यस्तेनैव विशेषणेन त एव प्रत्यया इह भवन्ति / यथा मासे भवं मासिकं तथैव मासो देवताऽस्येति मासिकमित्यादि / 1380 आदेश्छन्दसः प्रगाथे // 6 / 2 / 112 // सेति प्रकृतिरस्येति प्रत्ययार्थश्चानुवर्तते / तयोर्यथाक्रमं विशेषणे आदेश्छन्दस इति प्रगाथे इति च / सेति प्रथमान्तादादिभूतात् छन्दसोऽस्येति षष्ठयर्थे प्रगाथेऽभिधेये यथाविहितं प्रत्ययः स्यात् / यत्र द्वे ऋचौ प्रग्रन्थनेन प्रकर्षगानेन वा तिस्रः क्रियन्ते स मन्त्रविशेषः प्रगाथः। पङ्क्तिरादिर्यस्य प्रगाथस्य पाङ्क्तः प्रगाथः। आदेरिति किम् / अनुष्टुब् मध्यमस्य प्रगाथस्य / छन्दस इति किम् / उदित्ययं शद्ध आदिरस्य प्रगाथस्य / प्रगाथ इति किम् / पङ्क्तिरादिरस्य अनुवाकस्य / 1381 योद्धृप्रयोजनायुद्धे // 6 / 2 / 113 // सेति प्रथमान्तात् योद्धवाचिनः प्रयोजनवाचिनश्चास्येति षष्ठयेथे युद्धेऽभिधेये यथाविहितं प्रत्ययः स्यात् / विद्याधरा योद्धारः अस्य युद्धस्य वैद्याधरं युद्धम्। भारतं युद्धम् / प्रयोजनं प्रवृत्तिसाध्यं फलम् / सुभद्रा प्रयोजनमस्य युद्धस्य सौभद्रं युद्धम् / सौतारं युद्धम् / अत्र सुभद्रादिशद्धस्तत्माप्तौ वर्तत इति प्रयोजनम्। योद्धृपयोजनादिति किम् / मासोऽस्य युद्धस्य। युद्ध इति किम् / सुभद्रा प्रयोजनमस्य वैरस्य / 1382 भावनोऽस्यां णः // 62 / 114 // सेति प्रकृतिविशेषणमनुवर्तते। भावे यो घञ् तदन्तात् प्रथमान्तादस्यामिति स्त्रीलिङ्गे सप्तम्यर्थे णः प्रत्ययः स्यात् / प्रपातोऽस्यां वर्तते तिथौ पापाता। भावग्रहणं किम् / प्राकारोऽस्याम् / घन इति