SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 285 1372 शतरुद्रात्तौ // 6 / 2 / 104 // शतरुद्रशद्वात्तौ-ईय इय इत्येतौ प्रत्ययौ स्याताम् साऽस्य देवतेत्यस्मिन् विषये / शतसंख्या रुद्राः शतरुद्राःः / ते देवता अस्य शतरुद्रीयं, शतरुद्रियम् / शतं रुद्रां देवता अस्येति द्विगावपि विधानसामर्थ्यात् लुब् न भवति / 1373 अपोनपादपान्नपातस्तु चातः // 2 / 105 // अपोनपादपानपात् इत्येताभ्यां तौ प्रत्ययौ स्याताम् सोऽस्य देवतेत्यस्मिन् विषये तत्संनियोगे चानयोराच्छदस्य त इत्ययमादेशः स्यात् / अपोनपात् देवता अस्य अपोनप्त्रीयम् , अपोनत्रियम् / अपानप्त्रीयम् , अपानत्रियम्।। 1374 महेन्द्राहा // 6 / 2 / 106 // महेन्द्रशद्वात् साऽस्य देवतेत्यस्मिन् विषये तौ प्रत्ययौ वा स्याताम् / महेन्द्रीयम् , महेन्द्रियम् / पक्षे अण् / माहेन्द्रं हविः / 1375 कसोमात् व्यण // 6 / 2 / 107 // कशद्वात् सोमशद्वाच्च साऽस्य देवतेत्यस्मिन् विषये ट्यण प्रत्ययः स्यात् / अणोऽपवादः / टकारो डन्यर्थः। का प्रजापतिर्देवता अस्य कायं हविः। कायी इष्टिः। कशब्दं प्रति णित्त्वस्य वैयर्थ्यांदालोपो न भवति / सोमो देवताऽस्य सौम्यं हविः। 1376 द्यावापृथिवीशुनासीराग्नीषोममरुत्ववास्तोष्पतिगृहमेधादीययौ // 6 / 2 / 108 // एभ्यः साऽस्य देवतेत्यस्मिन् विषये ईय य इत्येतौ प्रत्ययौ स्याताम् / अणो व्यस्य चापवादः / द्योश्च पृथिवी च द्यावापृथिव्या ते देवते अस्य द्यावापृथिवीयम् , द्यावापृथिव्यम् हविः / शुनश्च वायुः सीरश्चादित्यः शुनासीरौ तौ देवता अस्य शुनासीरीयम् , शुनासीर्यम् / अग्निश्च सोमश्च अग्नीषोमौ तौ देवता अस्य अग्नीषोमीयम् , अग्नीषोम्यम् / मरुत्वान् देवता अस्य मरुत्वतीयम् / मरुत्वत्यम् / वास्तोष्पतिर्देवताऽस्येति वास्तोष्पतीयम् , वास्तोष्पत्यम् / गृहमेधो देवताऽस्य गृहमेधीयम् , गृहमेध्यम् / 1377 वावृतुपित्रुषसो यः // 6 / 2 / 109 // वायु ऋतु पितृ उपस् 1 ननु कायमित्या लोपात्स्वरादेश इति न्यायेन लोपात् पूर्व वृद्धौ कृतायां पश्चादाकारलोपः कस्मान्न भवतीत्याह-कशब्दं प्रतीति / अकारस्याकारस्य वा लोपे विशेषाभावात् / यद्वा सकृद्गते स्पर्द्धं यद् बाधितं तद् बाधितमेवेत्युपतिष्ठते /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy