SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ 284 सिद्धहैमबृहत्मक्रिया. [तद्धित अस्य चैत्रिकः, चैत्रो वा मासोऽर्धमासो वा। एवं कार्तिक्याः कार्तिकिकः, कार्तिकः। फाल्गुन्याः फाल्गुनिकः, फाल्गुनः / श्रवणायाः श्रावणिकः, श्रावणः / 1367 देवता // 6 // 2 // 101 // सास्येत्यनुवर्तते / सेति प्रथमान्तादस्येति षष्ठयर्थे यथाविहितं प्रत्ययः स्याद्यत्तत्पथमान्तं देवता चेत्सा भवति / अर्हन् देवता अस्य आर्हतः / जैनः / आग्नेयः / आदित्यः / बार्हस्पत्यः / गव्यम् / 1368 देवतानामात्वादौ // 7 / 4 / 28 // देवतार्थानां शद्धानामात्वादौ विषये णिति तद्धिते परे आदेः पूर्वपदस्योत्तरपदस्य च स्वरेष्वादेः स्वरस्य वृद्धिः स्यात / अग्निश्च विष्णुश्च देवता अस्य आग्नावैष्णवं सूक्तम् / वेदसहश्रुतावायुदेवतानामित्यत आरभ्य उपासोषस इति यावदात्वादयः। आत्वादाविति किम् / स्कन्दविशाखयोरिदं स्कान्दविशाखम् / - 1369 आतो नेन्द्रवरुणस्य // 7 / 4 / 29 // आकारान्तात् पूर्वपदात्परस्य इन्द्रशद्रस्य वरुणशब्दस्य चोत्तरपदस्य स्वरेष्वादेः स्वरस्य वृद्धिर्न स्यात् / अग्निश्च इन्द्रश्च अग्नेन्द्रौ / तौ देवता अस्य आग्नेन्द्रं सूक्तम् / सौमेन्द्रं हविः। ऐन्द्रावरुणम् / मैत्रावरुणम् / आत इति किम् / आग्निवारुणम् / उत्तरपदस्येत्येव / ऐन्द्राग्नं एकादशकपालं पुरोडाशं निर्वपेत् / ननु चेन्द्रशद्धस्य द्वौ स्वरौ तत्रायः संधिकार्येण हियतेऽपरोऽवर्णेवर्णस्येत्यतोऽस्वर एवेन्द्रशद्धस्तस्य किं वृद्धिप्रतिषेधेन ? सत्यम् / किन्त्वनेनैतज्ज्ञाप्यते बहिरङ्गमपि पूर्व पूर्वोत्तरपदयोः कार्य भवति पश्चात् सन्धिकार्यम् / १तेन पूर्वेषुकामशम इत्यादि सिद्धम् / 1370 पैगाक्षीपुत्रादेरीयः // 6 / 2 / 102 // पैङ्गाक्षीपुत्रं इत्येवमादिभ्य ईयः प्रत्ययः स्यात्साऽस्य देवतेत्यस्मिन्विषये / अणोऽपवादः। पैङ्गाक्षीपुत्रो देवता अस्य पैङ्गाक्षीपुत्रीय हविः / तार्णविन्दवो देवता अस्य तार्णविन्दवीयं हविः / एवं पैङ्गीपुत्रीयम् / पैङ्गाक्षीपुत्रादयः प्रयोगगम्याः / 1371 शुक्रादियः // 6 / 2 / 103 // शुक्रशद्वादियः प्रत्ययः स्यात्साऽस्य देवतेत्यस्मिन् विषये / शुक्रियं हविः / शुक्रियोऽध्यायः 1 अत्र भवेऽण् प्राग्ग्रामाणामित्युत्तरपदवृद्धिः / अत्र यदि पूर्व संधिः स्यात्तदा इकारस्य पूर्वपदत्वात् षुसंबंधिन उकारस्य वृद्धिः स्यात् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy