________________ प्रकरणम् / सिद्धहैमबृहस्मक्रिया. 283 1360 ऋश्यादेः कः // 6 / 2 / 94 // ऋश्य इत्यादिभ्यश्चातुरर्थिकः कः प्रत्ययः स्यादेशे नाम्नि / ऋश्यकः / न्यग्रोधकः। 1361 वराहादेः कण् // 6 / 2 / 95 // वराहादिभ्यश्चातुरर्थिकः कण प्रत्ययः स्यात् देशे नाम्नि / वाराहक; / पालाशकः। 1362 कुमुदादेरिकः // 6 / 2 / 96 // कुमुद इत्येवमादिभ्यश्चातुरर्थिकः इकः प्रत्ययः स्याद्देशे नाम्नि / कुमुदिकम् / इक्कटिकम् / 1363 अश्वत्थादेरिकण् // 6 / 2 / 97 // अश्वत्थ इत्यादिभ्यश्चातुरर्थिक इकण् प्रत्ययः स्याद्देशे नाम्नि / आश्वत्थिकम् / कौमुदिकम् / 1364 सास्य पौर्णमासी // 6 / 2 / 98 // इतिशद्वो नान्नीति चानुवर्तते / देश इति निवृत्तम् / सेति पथमान्तादस्येति षष्ठयर्थे यथाविहितं प्रत्ययः स्यात् यत्तत्प्रथमान्तं तच्चेत्पौर्णमासी भवति नाम्नि-प्रत्ययान्तं चेन्नाम स्यात् / इतिकरणो विवक्षार्थः। तेन मासार्धमासयोरेव संवत्सरपर्वणोः प्रत्ययः। संवत्सरेऽप्यन्ये। अस्येत्यवयवावयविसंबंधे षष्ठी। पौषी पौर्णमासी अस्य पौषो मासः। पौषोऽर्धमासः। एवं माघः, वैशाखः, आषाढ इति। नाम्नीत्येव / पौषी पौर्णमासी अस्य पञ्चरात्रस्येति वाक्यमेव / पौर्णमासीति पूर्णी माश्चन्द्रोऽस्यामस्तीति ‘पूर्णमासोऽण् / इत्यण् / पूर्णमास इयमिति वा तस्येदमित्यण / पूर्णो मा मासो वास्यां पूर्णमासा वा युक्तेति अत एव निपातनादण / 1365 आग्रहायण्यश्वत्थादिकण् // 6 / 2 / 99 // आग्रहायणी अश्वत्था इत्येताभ्यां सेति प्रथमान्ताभ्यामस्येति षष्ठयर्थे इकण प्रत्ययः स्यात् यत्तत्प्रथमान्तं तच्चत्पौर्णमासी भवति नाम्नि-प्रत्ययान्तं चेन्नाम स्यात् / आग्रहायणी पौर्णमासी अस्येति आग्रहायणिको मासोऽर्धमासो वा। अश्वत्था पौर्णमासी अस्येति आश्वत्थिको मासोऽर्धमासो वा / आग्रहायणी मार्गशीर्षी / अश्वत्था आश्वयुजी। * अन्ये तु अश्वत्थशद्धमप्रत्ययान्तं पौर्णमास्यामपि पुलिङ्गमिच्छन्ति। अश्वत्था पौर्णमासी। 1366 चैत्रीकार्तिकीफाल्गुनीश्रवणाद्वा // 62 / 100 // एभ्य इकण प्रत्ययो वा स्यात् सास्य पौर्णमासीति अस्मिन् विषये नाम्नि / चैत्री पौर्णमासी