________________ 280 सिद्धहैमबृहत्मक्रिया. [तद्धित तु वाक्यमेव / प्रत्ययाभावाच लुबपि न वक्तव्या। अङ्गवरणादीनां च क्षत्रियवृक्षादिवज्जनपदनगरादौ स्वत एव वृत्तिन प्रत्यययोगात् लिङ्गसंख्योपादानं च स्वगतमेवेति / 1335 तदवास्ति // 6 / 270 // तदिति प्रथमान्तादत्रेति सप्तम्यर्थे यथाविहितं प्रत्ययः स्यात् यत्तत्प्रथमान्तं तच्चेदस्तीति भवति देशे-नाम्नि प्रत्ययान्तं चेत् देशस्य नाम भवति / अत्रापीतिकरणो विवक्षार्थोऽनुवर्तते एव / तेन प्रसिद्ध नाम्नि भूमादौ चार्थे भवति / अत एव चोभयप्राप्तौ परोऽपि मत्वर्थीयोऽनेन बाध्यते / उदुम्बरा अस्मिन् देशे सन्ति औदुम्बरं नगरम् / औदुम्बरो जनपदः। औदुम्बरः पर्वतः। 1336 तेन निर्वृत्ते च // 6 / 271 // तेनेति तृतीयान्तात् निर्वृत्तमित्यर्थे यथाविहितं प्रत्ययः स्यात् देशे नाम्नि प्रत्ययान्तं चेद्देशस्य नाम भवति / यदा अकर्मका अपि धातवः सोपसर्गाः सकर्मका भवन्ति इति कर्मणि निर्वृत्तशब्दो व्युत्पाद्यते तदा तेनेति कर्तरि करणे वा तृतीया। यदा त्वकर्मकविवक्षया कर्तरि निर्वृत्तशब्दस्तदा हेतौ तृतीया / कुशाम्बेन निवृत्ता कौशाम्बी नगरी / चकारश्चतुणी योगानामुत्तरत्रानुवृत्त्यर्थः / तेनोत्तरे प्रत्यया यथायोगं चतुर्वर्थेषु भवन्ति। ___ 1337 नद्यां मतुः // 6 // 2 // 72 // तस्य निवासः, तस्यादूरभवः, तदत्रास्ति, तेन निर्वृत्तं चेत्येष्वर्थेषु मतुः प्रत्ययः स्यात् नयां देशे नाम्नि-प्रत्ययान्तं चेन्नदीविषयं नाम भवति / नदीनामेत्यर्थः। अणोऽपवादः / 1338 नाम्नि // 2 / 1 / 95 // मतोर्मकारस्य वकारादेशः स्यात् संज्ञायाम् / अनजिरादिबहुस्वरेत्यादिना च मतो दीर्घः / उदुम्बरा अस्यां सन्ति उदुम्बरावती नदी। मशकावती / वीरणावती / शरावती / इरावती / भगीरथेन नित्ता भागीरथीत्यादीनि नदीनामान्यमत्वन्तान्येवेति मतुर्न भवति / 1339 मध्वादेः // 6 / 2 / 73 // मध्वादिभ्यो मतुः प्रत्ययः स्यात् चातुरर्थिकः देशे नाम्नि / अणोऽपवादः। अनद्यर्थश्चारंभः। मधुमान् / बिसवान् / 1340 नडकुमुवेतसमहिषाड्डित् // 6 / 274 // नडादिभ्यो डिन् मतुः प्रत्ययो भवति चातुरर्थिकः देशे नान्नि / अणाद्यपवादः / नड्वान् / कुमुद्वान् / वेतस्वान् / महिष्मान् देशः। तत्र भवा माहिष्मती नगरी। डित्त्वमन्त्यस्वरादिलोपार्थम् /