SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 279 न्तात् दुग्धेऽर्थे सोढ दूस मरीस इत्येते प्रत्ययाः स्युः / अवेर्दुग्धम् अविसोढम् / अविदूसम् / अविमरीसम् / 1330 राष्ट्रेऽनङ्गादिभ्यः॥६॥२॥६५॥ राष्ट्रं जनपदः / षष्ठयन्तादङ्गादिवर्जितान्नाम्नो राष्ट्रेऽभिधेये यथाविहितम प्रत्ययः स्यात् / शिबीनां राष्ट्रं शैवम् / अनङ्गादिभ्य इति किम् / अङ्गानां वङ्गानां वा राष्ट्रमिति वाक्यमेव / अङ्गादयः प्रयोगगम्याः / केचित्तु अङ्गादिप्रतिषेधं नेच्छन्ति / अङ्गानां राष्ट्रमाङ्गम् / वाङ्गमित्यादि / उत्तरत्र निवास इत्यभिधानात् ईशितव्ये राष्ट्रेऽयं विधिः / उभयथा हि राष्ट्रसंबंधो भवति / 1331 राजन्यादिभ्योऽकम् / / 6 / 2 / 66 // राजन्य इत्येवमादिभ्यो राष्ट्र वाच्येऽका प्रत्ययः स्यात् / अणोऽपवादः / राजन्यानां राष्ट्र राजन्यकम् / दैवयावतकम् / बहुवचनमाकृतिगणार्थम् / 1332 वसातेर्वा // 6 // 2 // 37 // वसातिशब्दाद्राष्ट्रे वाच्येऽकञ् प्रत्ययो वा स्यात् / वसातीनां राष्ट्रं वासातकं वासातम् / 1333 भौरिक्यैषुकार्यादेविधभक्तम् // 62 / 68 // भौरिक्यादिभ्य ऐषुकार्यादिभ्यश्च राष्ट्रे यथासख्यं विध भक्त इत्येतौ प्रत्ययौ स्याताम् / अणोऽपवादः / भौरिकीणां राष्ट्र भौरिकिविधम् / भौलिकिविधम् / स्वभावानपुंसकता / ऐषुकारीणां राष्ट्रं ऐषुकारिभक्तम् / सारसायनभक्तम् / 1334 निवासादूरभवे इति देशे नाम्नि // 62 / 69 // षष्ठयन्तानाम्नो निवास अदूरभव इत्येतयोरर्थयोर्यथाविहितं प्रत्ययः स्यात् देशे नाम्नि-प्रत्ययान्तं चेद्देशस्य नाम / इतिकरणो विवक्षार्थः / तेनानुवृत्ते व्यवहारमनुपतिते नाम्नि विज्ञेयम् न संगीते / निवसन्त्यस्मिन्निति निवासः / शिबीनां निवासो देशः शैवः, विदिशाया अदूरभवं नगरं वैदिशम् / वैदिशो जनपदः। इह केचिदङ्गानां निवासः अङ्गाः, वरणानामदूरभवं वरणा नगरम् , खलतिकस्य अदूरभवानि खलतिकं वनानीत्यादिषु प्रत्ययमुत्पाद्य लुपमारभन्ते, सत्यां च लुपि प्रकृतिवल्लिङ्गवचने न मन्यन्ते तदयुक्तम् / अत्र हि प्रकृतिमात्रमेव देशनाम न प्रत्ययान्तम् प्रत्ययान्तस्य च देशनामत्वे प्रत्ययो विधीयते इति न भवति / तस्य निवास इत्यादिविवक्षोयां
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy