________________ 278 सिद्धहैमबृहत्मक्रिया. [तद्धित तत्माप्तौ वृद्धिमाप्तौ तस्मादेव यकारात् प्राक् ऐकार आगम: स्यात् णिति तद्धिते / नैयग्रोधम् / इदमपि द्वारादीनां तदादिविधेर्तापकम् / न्यग्रोहतीति न्यग्रोध इति व्युत्पत्तिपक्षे नियमार्थम् / केवलस्यैवेति / अव्युत्पत्तिपक्षे तु विध्यर्थं वचनम् / विवक्षिते वाण प्रत्ययःस्यात् पक्षे यथाप्राप्तम् प्रत्ययस्तस्य च लुप / जम्ब्वा विकारोऽवयवो वा फलं जाम्बवम् / पक्षे जम्बु जम्बूः / लुपि स्त्रीनपुंसकते / 1326 न द्विरद्रुवयगोमयफलात् // 6 // 2 // 61 // द्रुवयं गोमयं फलवाचि च वर्जयित्वाऽम्यस्मान्नानो विकारावयवयोर्द्विः प्रत्ययो न स्यात् / कपोतस्य विकारोऽवयवो वा कापोतः / कापोतस्य विकारोऽवयवो वेति दोरमाणिन इति मयट् न भवति / अद्रुवयगोमयफलादिति किम् / द्रौवयं खण्डम् / गौमयं भस्म / कापिस्थो रसः / कथं कपोतस्य मांसं कापोतम् तस्य विकारः कापोतो रसः पलाशस्यावयवः पालाशी शाखा तस्या अवयवः पालाशी समित् / विकारेऽपि प्रकृतिशब्दो वर्तते / यथा मुद्गैः शालीन् भुङ्क्ते / मुद्गविकारैः शालिविकारानिति गम्यते / गोभिः सन्नद्धो वहति / गोविकारैश्चर्ममिरिति गम्यते। अवयवेऽप्यवयविशब्दो वर्तते / पूर्वे पश्चालाः: ग्रामो दग्ध इति / तत्र विकारवृत्तेः प्रकृतिशब्दादवयववृत्तेरवयविशब्दाच प्रत्ययो भविष्यति / विकारविकारोऽपि वा विकार एव अवयवावयवोऽप्यवयव इति / 1327 पितृमातुर्व्यडुलं भ्रातरि // 6 / 2 / 62 // पितृमातृशब्दाभ्यां षष्ठयन्ताभ्यां भ्रातरि वाच्ये यथासंख्यं व्य डुल इत्येतो प्रत्ययौ स्याताम् / पितुर्धाता पितृव्यः / मातुर्कीता मातुलः / डकारोऽन्त्यस्वरादिलोपार्थः / 1328 पित्रो महट् // 6 / 2 / 63 // पितृमातृशब्दाभ्यां षष्ठयन्ताभ्यां मातापित्रोर्वाच्ययो महट् प्रत्ययः स्यात् / पितुः पिता पितामहः। पितुर्माता पितामही / मातुः पिता मातामहः। मातुर्माता मातामही / द्विवचनटित्त्वाभ्यां मातापित्रोरिति विज्ञायते / डकारोऽन्त्यस्वरादिलोपार्थः। टकारो ड्यर्थः / ... .1329 अवेर्दुग्धे सोढदुसमरीसम् // 62 / 64 // अविशब्दात् षष्ठय