SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 277 इकारादिवर्जिते ब्णिति तद्धिते परे वकारात् प्रागौकारो वा स्यात् / इति विकल्पः। श्वापदं, शौवापदम् / अनितीति किम् / श्वपदेन चरति श्वापदिकः। 1320 लुब्बहुलं पुष्पमूले // 6 / 2 / 57 // विकारावयवयोविहितस्य प्रत्ययस्य पुष्पे मूले वा विकारतयावयवतया वा विवक्षिते बहुलं लुप् स्यात् / मल्लिकाया विकारोऽवयवो वा पुष्पं मल्लिका / यूथिका / नवमालिका / मालती / एषु अणो मयटो वा लुपि 1321 ङयादेर्गौणस्याविपस्तद्धितलुक्यगोणीसूच्योः // 2 / 4 / 95 / / ङयादेः प्रत्ययस्य गौणस्याकिबन्तस्य तद्धितलुकि सति लुक् गोणीसूचीसंबंधिनस्तु न / इत्यनेन स्त्रीप्रत्ययनिवृत्तौ लुबन्तस्य स्त्रीत्वात् पुनः स्त्रीप्रत्ययः। विदार्या मूलं विदारी / कचिन्न भवति / वरणस्य पुष्पाणि वारणानि / एरण्डस्य मूलानि ऐरण्डानि / कचिद्विकल्पः / शिरीषस्य पुष्पाणि शिरीषाणि, शैरीषाणि / हीबेरस्य मूलानि हीबेराणि, हैबेराणि / कचित्पुष्पमूलाभ्यामन्यत्रापि भवति / आमलकस्य विकारो वृक्षः आमलकी / बदरी / व्रीहेविकारः स्तम्बः व्रीहिः / 1322 फले // 6 // 2 // 58 // विकारेऽवयवे वा फले विवक्षिते प्रत्ययस्य हरीतक्याः फलं हरीतकी / पिप्पली / हरीतक्यादिभ्यो लुपि प्रकृतिलिङ्गमेव / तत्र पूर्वस्य स्त्रीप्रत्ययस्य लुपि पुनः स एव स्त्रीप्रत्ययः / यद्यप्यामलकादीनि प्रकृत्यन्तराणि सन्ति तथाप्यामलक्यादिभ्यः प्रत्ययश्रुतिनिवृत्यर्थ लुग्वचनम् / 1323 प्लक्षादेरण // 6 / 2 / 59 // प्लक्षादिभ्यो विकारेऽवयवे वा फले विवक्षिते अण् स्यात् / मयटोऽपवादः। विधानसामर्थ्याच्चास्य लुब् न भवति / प्लक्षस्य विकारोऽवयवो वा फलं प्लाक्षम् / एवं न्यग्रोधस्य विकार इत्यत्रानेन अणि कृते-- 1324 न्यग्रोधस्य केवलस्य // 7 // 47 // न्यग्रोधशब्दस्य केवलस्य यो यकारस्तस्य स्थानी अव्युत्पत्तिपक्षे तु समीपो यः स्वरेष्वादिः स्वरस्तस्य
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy