________________ 274 सिद्धहैमबृहत्मक्रिया. [तद्धित प्रत्ययः स्यात् / अणोऽपवादः / एण्या विकारो ऽवयवो वा ऐणेयं मांसम् / ऐणेयी जंघा / स्त्रीलिङ्गनिर्देशात् पुंलिङ्गादणेव / ऐण मांसम् / ऐणी जंघा / 1300 कौशेयम् // 6 // 2 // 39 // कोशशब्दाद्विकारे एयञ् प्रत्ययो निपात्यते / कोशस्य विकारः कौशेयं वस्त्रं सूत्रं वा / निपातनं रूढयर्थम् / तेन वस्त्रमूत्राभ्यामन्यत्र भस्मादौ न भवति / 1301 परशव्याद्यलुक् च // 6 / 2 / 40 // परशवे इदं परशव्यम् / तस्माद्विकारे यथाविहितमण्प्रत्ययः स्यात् यकारस्य च लुक् / परशव्यस्यायसो विकारः पारशवम् / अण् सिद्ध एव यलुगर्थे वचनम् / अथेह यग्रहणं किमर्थम् ? तदभावेऽप्यवर्णेवर्णस्येत्यन्तलुसिद्धौ लुग्ग्रहणात् अन्त्याभावेऽन्त्यसदेशस्यापि यकारस्य लुग भविष्यति / सत्यम् / यग्रहणं यशब्दस्य समुदायस्यैव लोपार्थम् / तेनोत्तरसूत्रे 'स्वरस्य परे प्राग्विधौ' इत्यस्यानुपस्थानाद्यकारलोपे अवर्णेवर्णस्येतीकारलोपो भवति / 1302 कंसीया ज्यः // 6 // 41 // कंसाय इदं कंसीयम् / परिणामिनि तदर्थे ' इतीयः / कंसीयशब्दाद्विकारे व्यः स्यात् तत्संनियोगे च यशब्दस्य लुक् / कंसीयस्य विकारः कांस्यम् / 1303 हेमार्थान्माने // 6 / 242 // हेमवाचिनः शब्दान्माने विकारे वाच्ये यथाविहितमण प्रत्ययः स्यात् / दुमयटोऽपवादः / हाटकस्य विकारः हाटको निष्कः। हैमं कार्षापणमित्यत्र परत्वाद्धेमादिलक्षणोऽयेव / अर्थग्रहणं स्वरूपविधिव्युदासार्थम् / मान इति किम् / हाटकमयी यष्टिः। 1304 द्रोर्वयः // 6 // 2 // 43 // द्रुशब्दान्माने विकारे वयः प्रत्ययः स्यात् / यस्यापवादः / द्रोविकारो द्रुवयं मानम् / 1305 मानात् क्रीतवत् // 6 // 2 // 44 // मीयते परिच्छिद्यते येन तन्मानम् इयत्तापरिच्छित्तिहेतुः संख्यादिरुच्यते / मानवाचिनः शब्दाद्विकारे क्रीतवत् प्रत्ययविधिः / शतेन क्रीतं शत्यं, शतिकं / तथैव शतस्य विकारः शत्यः, शतिकः। बत् सर्वविधिसादृश्यार्थः / तेन लुवादिकस्याप्यतिदेशो भवति / द्विशतः /