SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ 272 सिद्धहैमबृहत्पक्रिया. [तद्धित 1286 खलादिभ्यो लिन् // 6 / 2 / 27 // खलप्रकारेभ्यः समूहे लिन् प्रत्ययः स्यात् / लकारः स्त्रीत्वार्थः। खलानां समूहः खलिनी / पाशादित्वाल्ल्योऽपि / खल्या / ऊकानाम् अकिनी / कुटुम्बानां कुटुम्बिनी / खलादयः प्रयोगगम्याः / 1287 ग्रामजनबन्धुगजसहायात्तल् // 6 / 2 / 28 // एभ्यः समूहे तल् स्यात् / ग्रामाणां समूहो ग्रामता / जनता / बन्धुता / गजता / सहायता। 1288 पुरुषात्कृतहितवधविकारे चैयञ् // 6 // 2 // 29 // पुरुषशब्दात् कृते हिते वधे विकारे चकारात्समूहे च एयञ् स्यात् / कृतादौ यथाभिधानं विभक्तियोगः। पुरुषेण कृतः पौरुषेयो ग्रन्थः / पुरुषाय हितं पौरुषेयमार्हतं शासनम् / पुरुषस्य वधः पौरुषेयः / पुरुषस्य विकारः पौरुषेयो विकारः / पुरुषाणां समूहः पौरुषेयम् / 1289 विकारे // 6 // 2 // 30 // षष्ठयन्ताद्विकारे यथाविहितं प्रत्ययाः स्युः। द्रव्यस्यावस्थान्तरं विकारः / अश्मनो विकारः आश्मनः, आश्मः / अत्र-- 1290 वाश्मनो विकारे // 74 / 63 // अश्मनशब्दस्यापदस्य विकारे विहिते तद्धिते परेऽन्त्यस्वरादे ग्वा स्यात् / इत्यनेनान्त्यस्वरादिलोपः / 1291 चर्मशुनः कोशसंकोचे // 74 / 64 // चर्मन् श्वन इत्येतयोरपदभूतयोर्यथासंख्यं कोशे संकोचे चार्थे तद्धिते परेऽन्त्यस्वदादेलक् स्यात् / चर्मणो विकारः कोशश्चार्मः / कोशादन्यत्र चार्मणः / शुनोऽयं शौवः संकोचः / संकोचादन्यत्र शौवनः। कथं शुनो विकारोऽवयवो वा शौवं मांसम् पुच्छमिति? / हेमादित्वादवि नोऽपदस्येत्येव भविष्यति / तस्येदमित्येवाणादिसिद्धावर्धादिषु विकारे अणपवादवाधनार्थ -- विकारे ' इति सूत्रम् / 1292 प्राण्यौषधिवृक्षेभ्योऽवयवे च // 6 // 2 // 31 // प्राणिन्-औषधिवृक्षवाचिभ्यः षष्ठयन्तेभ्योऽवयवे विकारे च यथाविहितं प्रत्ययाः स्युः। प्राणिभ्यःकापोतं सक्थि मांसं वा। औषधिभ्यः-दौर्व काण्डं भस्म वा। वृक्षेभ्य:कारीरं काण्डं भस्म वा / प्राण्यौषधिक्षेभ्य इति किम् / पाटलिपुत्रस्यावयवः पाटलिपुत्रकः माकारः / तस्येदमिति विवक्षायामकञ् / इतः परं विकारे
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy