________________ प्रकरणम्] सिद्धहैमबृहत्पक्रिया. 1279 ईनोऽह्नः क्रतौ // 6 / 2 / 21 // अहन्शदात् समूहे क्रतौ वाच्ये ईनः प्रत्ययः स्यात् / अहां समूहोऽहीनः क्रतुः। क्रताविति किम् / आमन्यत् / श्वादिपाठादञ् अत्र 1280 अनीनाट्यहोऽतः // 7 // 4 // 66 // इन-अत्-अड्वर्जिते तद्धिते परेऽपदस्याहो योऽकारस्तस्य लुक् स्यात् / 1281 पृष्ठायः // 6 // 2 // 22 // पृष्ठशद्धात् समूहे क्रतौ वाच्ये यः प्रत्ययः स्यात् / पृष्ठानां समूहः पृष्ठयः क्रतुः / पृष्ठशद्धोऽहःपर्यायः। रथन्तरादिसामपर्याय इत्यन्ये / क्रतावित्येय / पाठिकम्। 1282 चरणाद्धर्मवत् // 6 // 2 // 23 // चरणं कठकालापादि / तस्माद्यथा धर्मे प्रत्यया भवन्ति तथा समूहेऽपि / वत् सर्वसादृश्यार्थः / तेन यकाभ्यः प्रकृतिभ्यो यः प्रत्ययो यथा धर्मे भवति ताभ्य एव प्रकृतिभ्यः स एव प्रत्ययस्तथैवेद भवति / यथा कठानां धर्मः काठकं तथा समूहेऽपि काठकमित्यादि / 1283 गोरथवातात् अल्कटयलूलम् // 6 / 2 / 24 // गोरथवात इत्येतेभ्यः समूहे यथासंख्यं त्रल् कट्यल् ऊल इत्येते प्रत्ययाः स्युः। गवां समूहो गोत्रा / रथानां समूहो रथकव्या / लकारौ १स्त्रीत्वार्थी // वातानां समूहो वातूलः॥ 1284 पाशादेश्च ल्यः // 6 // 2 // 25 // पाशादिभ्यो गोरथवातशब्देभ्यश्च समूहे ल्यः प्रत्ययः स्यात् / इकणादेरपवादः / पाशानां समूहः पाश्या। तृण्या। खल्या / गव्या / रथ्या। वात्या। भिक्षादिपाठादगारहलाभ्यामपि / आगारम् / हालम् / लकारः स्त्रीत्वार्थः। 1285 श्वादिभ्योऽञ् // 6 / 2 / 26 // श्वनप्रकारेभ्यः समूहेऽञ् प्रत्ययः स्यात् / शुनां समूहः शौवम् / अहामाह्नम् / अणैव सिद्धे नोपदस्येत्यन्त्यस्वरादिलोपार्थमञ्वचनम् अणपवादबाधनार्थ च / श्वादयः प्रयोगगम्याः। 1 'लिन्मिन्यनिण्यणि स्वयुक्ताः' इति लिङ्गानुशासने / अस्यायमर्थःलित्प्रत्ययान्तं मि-नि-अनि-अणिप्रत्ययान्तं स्त्रियामुक्ताः स्युक्ताः-क्तिः क्यप् शः यः अः अङ् अनः विप् अः अनिः ईञणकश्च इत्येतदन्तं च नाम स्त्रीकिगं स्यात् /