________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 269 1266 भिक्षादेः // 6 / 2 / 10 // भिक्षादिभ्यः षष्ठयन्तेभ्यः समूहेऽर्थे यथाविहितं प्रत्ययः स्यात् / भिक्षाणां समूहो भैक्षम् / गार्भिणम् / यौवतम् / अचित्तेकणो बाधनार्थ वचनम् / युवतेरण सिद्ध एव / धूवद्भावबाधनार्थस्तु पाठः / अन्ये तु युवतिशब्दं न पठन्ति / तन्मते पुंवद्भावे सति युवतीनां समूहो यौवनमित्येव भवति / तथा च प्रयोगः- . ' सुरूपमतिनेपथ्यं कलाकुशलयौवनम् / यस्य पुण्यकृतः प्रेष्यं सफलं तस्य यौवनम् ' // भिक्षशब्दाऽकारान्तोऽपीत्येके। 1267 क्षुद्रकमालवायु सेनानानि // दा२।११ // क्षुद्रकमालवशब्दात षष्ठयन्तात् समूहेऽर्थे यथाविहितमणप्रत्ययः स्यात् सेनाया नाम्नि / क्षुद्रकाश्च मालवाश्च क्षुद्रकमालवास्तेषां समूहः क्षौद्रकमालवी एवंनामा काचित् सेना / सेनानानीति किम् / क्षौद्रकमालवकमन्यत् / गोत्राकञ्बाधनार्थ वचनम् / सम्हाधिकारे हि तदन्तस्यापि ग्रहणम् 'धेनोरनञः' इति प्रतिषेधात् / 1268 गोत्रोक्षवत्सोष्ट्रद्धाजोरभ्रमनुष्यराजराजन्यराजपुत्रादकञ् // 6 / 2 / 12 // स्वापत्यसंतानस्य स्वव्यपदेशकारिणः प्रथमपुरुषस्यापत्यं गोत्रम् / गोत्रप्रत्ययान्तेभ्य उक्षादिभ्यश्च समूहेऽकञ् प्रत्ययः स्यात् / अणोऽपवादः। औपगवानां समूह औपगवकम् / औक्षकम् / वात्सकम् / औष्ट्रकम् / वार्द्धकम् / आजकम् / औरभ्रकम् / 1269 न राजन्यमनुष्ययोरके ॥२।४।१४॥राजन्यमनुष्ययोर्यकारस्याकप्रत्यये लुग् न स्यात् / मानुष्यकम् / राजकम् / राजन्यकम् / राजपुत्रकम् / 1270 केदाराण्ण्यश्च // 6 // 2 // 13 // केदारशब्दात् समूहे ण्योऽकञ् च प्रत्ययौ स्याताम् / अचित्तेकणोऽपवादः। कैदार्यम् / केदारकम् / . 1271 कवचिहस्त्यचित्ताच्चकण् // 62 / 14 // कवचिन् हस्तिन् इत्येताभ्यामचित्तवाचिभ्यः केदाराच्च समूहे इकण् प्रत्ययः स्यात् / कवचान्येषां सन्तीति