________________ 268 सिद्धहैमबृहत्मक्रिया. [तद्धित पुष्येण युक्तं वर्षमित्यत्र न भवति / भादिति किम् / उदितगुरुणा पूर्वरात्रेण युक्तं वर्षम् / अब्द इति किम् / मासे दिवसे वा न भवति / ___ 1262 चन्द्रयुक्तात् काले लुप्त्वप्रयुक्ते // 6 / 2 / 6 // चन्द्रेण युक्तं यन्नक्षत्रं तद्वाचिनस्तृतीयान्ताद् युक्तेऽर्थे यथाविहितं प्रत्ययः स्यात् स चेयुक्तोऽर्थः कालो भवति, अप्रयुक्ते तु कालवाचके शब्दे लुप् स्यात् / पुष्येण चन्द्रयुक्तेन युक्तमहः पौषमहः / एवं पौषी रात्रिः / चन्द्रयुक्तादिति किम् / शुक्रयुक्तेन पुष्येण युक्तः कालः / भादित्येव / चन्द्रयुक्तेन शुक्रेण युक्तः कालः। काल इति किम् / चन्द्रयुक्तेन पुष्येण युक्तो ग्रहः / लुप्त्वप्रयुक्ते, अद्य पुष्यः / अप्रयुक्त इति किम् / पौषमहः। 1263 इन्द्रादीयः॥६॥२७॥ चन्द्रयुक्तं यन्नक्षत्रं तद्वन्द्वात्तृतीयान्तात् युक्ते कालेऽर्थ ईयः प्रत्ययः स्यात् / राधानुराधाभिश्चन्द्रयुक्ताभिर्युक्तमहः राधानुराधीयमह। 1264 श्रवणाश्वत्थान्नाम्न्यः // 6 // 28 // चन्द्रयुक्तनक्षत्रवाचिनः श्रवणशब्दादश्वत्थशब्दाच्च तृतीयान्तायुक्ते काले अकारः प्रत्यय: स्यान्नान्नि-प्रत्ययान्तं चेत् कस्यचित् कालविशेषस्य नाम / श्रवणेन चन्द्रयुक्तेन युक्ता श्रवणा रात्रिः। अश्वत्थेन चन्द्रयुक्तेन युक्ता अश्वत्था रात्रिः पौर्णमासी वा / सत्यपि अन्वर्थयोगे न कालमात्रमेव उच्यते अपि तु कालविशेष एवेति नामत्वम् / नाम्नीति किम् / श्रावणमहः / आश्वत्थी रात्रिः। 1265 षष्ठ्याः समूहे // 6 // 29 // षष्ठयन्तान्नाम्नः समूहेऽर्थे यथाविहितं प्रत्ययाः स्युः / गोत्रादकञ् वक्ष्यते अचित्तादिकण्प्रतिपदं केदाराण्ण्यत्येवमादयः। ततोऽन्यदिहोदाहरणं द्रष्टव्यम् / चाषाणां समूहश्चाषम् / एवं काकं बाकं वानस्पत्यं स्वैणं पौंस्नम् / पञ्चानां कुमारीणां समूहः पञ्चकुमारीत्यत्र तु समूहः समाहार एव / स च समासार्थः समासेनैव च गत इति तद्धितो नोत्पद्यते / यद्युत्पद्यते को दोषः स्यात् उत्पन्नस्यापि ह्यस्य द्विगोरनपत्ये यस्वरादेर्लुबद्विरिति लुपा भवितव्यम् / तथा चाविशेषः / नैवम् / डन्यादेौणस्येत्यादिना डीनिवृत्तिः स्यात् / तस्येद• मित्येवाणादिसिद्धौ समूहविवक्षायां तदपवादबाधनार्थो योगः।