________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 267 // अथ रक्ताद्यर्थकाः॥ 1256 रागाट टो रक्ते // 6 // 21 // शुक्लस्य वर्णान्तरापादनमिह र रर्थः। रज्यतेऽनेनेति रागः कुसुम्भादिः। रागविशेषवाचिनो नाम्नष्ट इति तृतीयान्ताद् रक्तमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययः स्यात् / कुसुम्भेन रक्तं वस्त्रं कौसुम्भम् / एवं काषायम् / वाधिकारात् पक्षे वाक्यं समासश्च भवति / कुसुम्भेन रक्तं कुसुम्भरक्तम् इत्यादि / रागादिति किम् / चैत्रेण रक्तम् / रागशब्देन प्रसिद्धा एव कुसुम्भादयो रागा गृह्यन्ते / तेनेह न भवति / कृष्णेन रक्तम् / एते हि वर्णा द्रव्यवृत्तयो न तु रागाख्याः / कथं काषायौ गर्दभस्य कर्णी इत्यादि ? / काषायाविव 1257 लाक्षारोचनादिकम् // 6 / 2 / 2 // लक्षारोचना इत्येताभ्यां तृतीयान्ताभ्यां रक्तमित्यर्थे इकण् प्रत्ययः स्यात् / अणोऽपवादः। लाक्षया रक्तं लाक्षिकम् / रोचनया रक्तं रौचनिकम् / 1258 शकलकर्दमाद् वा // 6 // 2 // 3 // शकलकर्दम इत्येताभ्यां तृतीयान्ताभ्यां रागविशेषवाचिभ्यां रक्तमित्यर्थे इकण् प्रत्ययो वा स्यात् / शकलेन रक्तं शाकलिकम् / शाकलम् / कार्दमिकम् , कार्दमम् / / 1259 नीलपीतादकम् // 6 / 2 / 4 // नीलपीतशब्दाभ्यां रागविशेषवाचिभ्यां तृतीयान्ताभ्यां रक्तेऽर्थे यथासंख्यम् अ क इत्येतौ प्रत्ययौ स्याताम् / नीलेन लिङ्गविशिष्टग्रहणान्नील्या वा रक्तं नीलम् / पीतेन रक्तं पीतकम् / केचित्तु पीतकशब्दादप्यप्रत्ययमिच्छन्ति / पीतकेन कुसुम्भप्रथमनिर्यासेन रक्तं पीतकम् / गुणवचनत्वात्केन च सिद्धे अणपवादार्थ वचनम् / 1260 उदितगुरो द्युक्तेऽब्दे // 6 // 25 // उदितो गुरुबृहस्पतिर्यस्मिन् भे नक्षत्रे तद्वाचिनस्तृतीयान्तात् युक्तेऽर्थे यथाविहितं प्रत्ययः स्यात् स चेयुक्तोऽर्थीऽन्दः संवत्सरः स्यात् / 1261 तिष्यपुष्ययोर्भाणि // 2 / 4 / 90 // भस्य नक्षत्रस्य संबध्यण भाण यो भात् इत्युल्लेखेन विधीयते / तिष्यपुष्ययोर्यकारस्य भाणि परतो लुक् स्यात् / पुष्येणोदितगुरुणा युक्तं वर्ष पौषं वर्षम् / उदितगुरोरिति किम् / उदितशनैश्चरेण