________________ 266 सिद्धहैमबृहत्मक्रिया. [तद्धित एवं सौमः पिता। सौमः पुत्रः। अब्राह्मणादिति किम् / गार्यः पिता / गाायणः पुत्रः। 1253 पैलादेः // 6 / 1 / 142 // पैलादिभ्यो यूनि विहितस्य प्रत्ययस्य लुप् स्यात् / अब्राह्मणार्थमप्राच्याथै वचनम् / पीलाया अपत्यं पैलः। 'पीलासाल्वामण्डूकाद्वा' इत्यण / तस्यापत्यं द्विस्वरादण इत्यायनिन् / तस्य लुप् पैलः पिता / पैलः पुत्रः। 1254 प्राच्येशोऽतौल्वल्यादेः // 6 / 1 / 143 // प्राच्यगोत्रे य इञ् तदन्तात् तौल्वल्यादिवर्जितात् यून्यपत्ये विहितस्य प्रत्ययस्य लुप् स्यात् / ब्राह्मणार्थ वचनम् / पानागारिः पिता / पान्नागारिः पुत्रः। अत इब ततो 'यजिन' इत्यायनण / तस्य लुप् / प्राच्यग्रहणं किम् / दाक्षिः पिता। दाक्षायणः पुत्रः। इस इति किम् / राघवः पिता / राघविः पुत्रः। तौल्वल्यादिवर्जनं किम् / तौल्वलिः पिता / तौल्वलायनिः पुत्रः / दालीपिः पिता / दालीपायनिः पुत्रः / अत्र दिलीपशब्दस्यात एव निपातनादिनि वृद्धिराकारः। अपरे दिलीप इति प्रकृत्यन्तरमाहुः। 1255 गोत्रोत्तरपदाद् गोत्रादिवाजिह्वाकात्यहरितकात्यात् // // 3 / 1 / 12 // गोत्रमपत्यम् / जिह्वाकात्यहरितकात्यवर्जिताद् गोत्रप्रत्ययान्तोत्तरपदात् यद् गोत्रप्रत्ययान्तमुत्तरपदं तस्मादिव प्रत्ययः स्यात् / यथेह ईयो भवति चारायणीयाः पाणिनीयाः तथा कम्बलचारायणीयाः ओदनपाणिनीया इत्यादावपि भवति / यथा चेहाञ् भवति शाकलाः काण्वाः तथा त्रैहिशाकलाः पैङ्गलकाण्वा इत्यत्रापि भवति / अजिबाकात्यहरितकात्यादिति किम् / यथेहेयो भवति कात्यस्य छात्राः कातीयास्तद्वदिह न भवति जिह्वाचपलः कात्यो जिह्वाकात्यः / हरितभक्षः कात्यो हरितकात्यः तस्येमे छात्राः जैहाकाताः हारितकाताः। // इति श्रीसिद्धहैमबृहत्पक्रियायां तद्धितप्रकरणे अपत्याधिकारः समाप्तः॥ MKOM