________________ प्रकरणम् ] 265 1248 गर्गभार्गविका // 6 / 1 / 136 // गर्गभार्गविकेति द्वन्द्वात् प्राग्जितीये विवाहे यो विधीयतेऽकल प्रत्ययस्तस्मिन् अणो लुप्पतिषेधो निपात्यते। गर्गाणां वृद्धानां भृगूणां वृद्धानां यूनां च विवाहो गर्गभार्गविका। अत्रिभरद्वाजिकादिवदप्राप्तः प्रतिषेधो निपात्यते / 1249 यूनि लुप् // 6 / 1 / 137 / / यून्यपत्ये विहितस्य प्रत्ययस्य प्राग्जितीये स्वरादौ प्रत्यये विषयभूतेऽनुत्पन्न एव लुप् स्यात् / लुपि सत्यां यो यतः पामोति स तत उत्पद्यते / पाण्टाहृतस्यापत्यं पाण्टाहृतिः। तस्यापत्यं युवा पाण्टाहृतः / 'पाण्टाहृतिमिमताण्णश्चेति णः। तस्य छात्रा इति प्राग्जितीये स्वरादौ चिकीपिते णस्य लुप / तत इबन्तं प्रकृतिरूपं संपन्नम् इति 'वृद्धेञः' इत्या भवति / पाण्टाहृताः। प्राग्जितीय इत्येव / भागवित्तिकाय हितं भागवित्तिकीयम् / 1250 वायनणायनियोः // 6 / 1138 // आयनण आयनित्रश्च यून्यपत्ये विहितस्य प्राग्जितीये स्वरादौ प्रत्यये विषयभूते लुब् वा स्यात् / गर्गस्यापत्यं गायः तस्यापत्यं युवा गाायणः। यविञ इत्यायनण् / तस्य छात्रा गार्गीयाः गाायणीया वा। दोरीय इतीयः। आयनणो णित उपादानात बितः पूर्वेण नित्यमेव लुप् / अत्रेरपत्यमात्रेयः तस्यापत्यं भारद्वाजो युवा आत्रेयायणः / 'आत्रेयाद् भारद्वाजे' इत्यायनञ् / तस्य छात्राः आत्रेयीयाः। 1251 द्रीनो वा // 6 / 1 / 139 // प्राग्जितीये स्वर इति निवृत्तम् / दिसंज्ञो य इञ् तदन्तात् परस्य युवमत्ययस्य लुब् वा स्यात् / उदुम्बरस्यापत्यमौदुम्बरिः। साल्वांशेत्यादिनेञ् / तस्यापत्यं युवा औदुम्बरिः, औदुम्बरायणो वा / यत्रित्र इत्यायनण / द्रिग्रहणं किम् / दाक्षेरपत्यं दाक्षायणः। इत्र इति किम् / अङ्गस्यापत्यमाङ्गः। पुरुमगध इत्यादिना अण / तस्यापत्यमिति द्विस्वरादण इत्यायनि / तस्य अब्राह्मणादिति नित्यं लुप् / आङ्गः पिता। आङ्गः पुत्रः / अब्राह्मणात् इति नित्यं लुपि प्राप्तायां विकल्पार्थ वचनम् / / 1252 अब्राह्मणात् // 6 / 1 / 141 / अब्राह्मणवाचिनो वृद्धमत्ययान्तानि विहितस्य प्रत्ययस्य लुप् स्यात् / अङ्गस्यापत्यमाङ्गः। पुरुमगधेत्यादिनाण् / तस्यापत्यं द्विस्वरादण इत्यायनिञ् / तस्य लुप् / आग: पिता / आङ्गः पुत्रः / 34