________________ 264 सिद्धहैमबृहत्मक्रिया. [ तद्धित लुब् न भवति, यस्कादे!त्रे इत्यत्र गोत्रे उत्पन्नस्येति प्रत्ययस्य विशेषणात् / गार्गीवत्सवाजाः / अत्र वत्सवाजयोरेव यत्रो लुप् न गार्गी इत्यस्य, तत्रास्त्रियामिति प्रतिषेधात / यादिग्रहणमगोत्रेऽपि यथा स्यादित्येवर्थम् / अबढर्थ वचनम्। 1245 वान्येन // 6 / 1 / 133 // यादेरन्येन सह यादीनां द्वन्द्वे बहुष्वर्थेषु वर्तमाने यः स यादिप्रत्ययस्तस्य तथा वालुक् स्यात् यथापूर्वम् / अङ्गवङ्गदाक्षयः। आङ्गवाङ्गदाक्षयः। पूर्वेण नित्ये प्राप्ते विकल्पाथे वचनम् / 1246 येकेषु षष्ठयास्तत्पुरुष यादेर्वा // 6 / 1 / 134 // षष्ठीतत्पुरुषे यत्पदं तस्याः षष्ठया विषये द्वयोरेकस्मिन् वर्तते तस्य यः स यज्ञादिः प्रत्ययस्तस्य तथा वा लुक् स्यात् यथा पूर्वम् / गाय॑स्य गार्ययोर्वा कुलम् गर्गकुलम् , गार्यकुलम् / एवं बिदकुलम् , बैदकुलमित्यादि / येकेष्विति किम् / गर्गाणां कुलम् गर्गकुलम् / षष्ठया इति किम् / गाय॑हितम् / षष्ठया इति तत्पुरुषस्य विशेषणेन प्रतिपदोक्तस्यैव षष्ठीतत्पुरुषस्य परिग्रहादिह न भवति / गाय॑स्य गार्ययोर्वान्तगतः अन्तर्गायैः / ' प्रात्यव'-इत्यादिना समासः / येकेष्वित्यस्य पष्ठया इति विशेषणं किम् / देवदत्तस्य गार्यः देवदत्तगार्ग्यः / तत्पुरुष इति किम् / गार्ग्यस्य समीपमुपगार्ग्यम् / यत्रादेरिति किम् / आङ्गकुलम् / 1247 न प्राग्जितीये स्वरे // 6 / 1 / 135 // गोत्र इति वर्तते / गोत्रे उत्पन्नस्य बहुषु या लुबुक्ता सा प्राग्जितीयेऽर्थे यो विधीयते स्वरादिस्तद्धितस्तस्मिन् विषयभूते न भवति / गर्गाणां छात्राः गार्गीयाः वात्सीयाः / प्राग्जितीय इति किम् / अत्रिभ्यो हितः अत्रीयः / स्वर इति किम् / गर्गेभ्य आगतं गर्गमयम्। बिदानामपत्यं युवा बैदः बैदावित्यत्र तु इनि विषयभूतेऽनेन प्रतिषेधः / इञस्तु लुपि सत्यामनन्तं न बहुषु वर्तते इति लुपः प्राप्तिरेव नास्ति / यत्र त्वस्ति तत्र भवत्येव / बिदानामपत्यानि विदाः। अथेह कस्मान्न भवति अत्रीणां भरद्वाजानां च विवाहः अत्रिभरद्वाजिका इति ? / उच्यते / प्रत्यासत्तेर्यस्य प्रत्ययस्य लुप् प्रतिषिध्यते तल्लोपिप्रत्ययान्तादेव विधीयमाने स्वरादौ प्रतिषेधः / अत्र द्वन्द्वाद्विधीयते न तल्लोपिप्रत्ययान्तादिति प्रतिषेधो न भवति / ' गर्गभार्गविका' इत्युत्तरसूत्रं वा नियमार्थ व्याख्यायते-गर्गभार्गविकाया अन्यत्र द्वन्द्वे वृद्धे यूनि वा प्रतिषेधो न भवति / गोत्र इत्येव / कुवल्याः फलं कुवलम् तस्येदं कौवलम् /