________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 263 भार्गवाश्छात्राः। भृग्वादीन् यस्कादिष्वपठित्वेदं वचनं ' धेकेषु षष्ठयास्तत्पुरुषे यत्रादेवा' इत्येवमर्थम् / अन्यथा भृगुकुलं भार्गवकुलमिति न सिद्धयेत् / 1241 प्रारभरते बहुस्वरादिनः // 6 / 1 / 129 // बहुस्वरान्नान्नो य इञ् प्रत्ययस्तदन्तस्य बहुत्वविशिष्टेऽथे प्राग्गोत्रे भरतगोत्रेच वर्तमानस्य यःस प्रत्ययस्तस्यास्त्रियां लुप् स्यात् / क्षरकलम्भिः। क्षरकलम्भी। बहुत्वेक्षीरकलम्भाः।अत इबोलुप / प्राग्भरत इति किम् / बालाकयः। हास्तिदासयः। कथं तौल्वलयः इत्यादिषु लुब् न भवति ? उच्यते / यस्कादिषु पुष्करसच्छब्दपाठात् / अस्य हि वहुस्वरत्वादनेनैवेलोपे सिद्धे तदर्थो यस्कादिषु पाठो ज्ञापयति तौल्वल्यादीनामिबो लुब् न भवतीति / भरताः प्राच्या एव तेषां पृथगुपादानं प्राग्ग्रहणेनाग्रहणार्थम् / तेन यौधिष्ठिरिः पिता यौधिष्ठिरायणः पुत्र इत्यत्र 'प्राच्येाऽतौल्वल्यादेः' इति लुब् न भवति / अपरे त्वाहुः / प्राग्ग्रहणं भरतविशेषणम् / क्षीरकलम्भादयो वैश्याः प्राग्भरताः / युधिष्ठिरादयो राजान उदग्भरताः। तत्र प्राग्ग्रहणादुदीच्यभरतेषु राजमु लुब् न भवति / यौधिष्ठिरयः। आर्जुनयः / भरतग्रहणात्तु प्राच्येषु राजसु न भवति / मारसंबन्धयः / भागवित्तयः / बहुस्वरादिति किम् / चैङ्कन्यः / इत्र इति किम् / शान्तनवाः / 1242 वोपकादेः॥६।१।१३०॥ उपकादिभ्यो यः प्रत्ययस्तदन्तस्य बहुत्वविशिष्टे गोत्रे वर्तमानस्य यः स प्रत्ययस्तस्यास्त्रियां लुब् न स्याद्वा / उपकाः, औपकायनाः / लमकाः, लामकायनाः / अस्त्रियामित्येव / औपकायिन्यः स्त्रियः / उपक, लमक-आभ्यां नडाद्यायनणो लुप् / 1243 तिककितवादी बन्दे // 6 / 1 / 131 // तिककितवादिषु द्वन्द्ववृत्तिषु बहुषु गोत्रापत्येषु वर्तमानेषु तैकायनिकैतवायनीत्यादीनां यः स प्रत्ययस्तस्यास्त्रियां लुप् स्यात् / तैकायनयश्च कैतवायनयश्च तिककितवाः। तिकाद्यायनिओ लुप् / 1244 द्यादेस्तथा / / 6 / 1 / 132 // यादिप्रत्ययान्तानां द्वन्द्वेऽबहुष्वर्थेषु वर्तमाने यः स यादिप्रत्ययस्तस्य लुप् स्यात् तथा-यथापूर्वम् / आङ्गश्च वाङ्गश्च सौमश्च अङ्गवङ्गसौह्माः / अत्र द्विस्वरलक्षणस्याणो लुप् / एवं गर्गवत्सवाजाः /