________________ [ तद्धित सिद्धहैमबृहत्मक्रिया बहुषु किंतर्हि समास इति लुप् न भवति / प्रत्ययः प्रकृत्यादेरिति नियमाद्धि न समासो यन्तो भवति / पञ्चालस्यापत्यं पाञ्चालस्तस्य तयोपित्यानि पञ्चाला इत्यत्र तु इनिं लुप्तेऽअन्तमेव बहुषु वर्तत इति अञोऽपि लुप् / 2H प्रत्ययस्य बहुषु वर्तमानस्य इति तु विज्ञायमाने न स्यात् / अस्त्रियामिति किम् / पञ्चालस्यापत्यानि स्त्रियः पाञ्चाल्यः / पञ्चभिः पाञ्चालीभिः क्रीतः पञ्चपञ्चाल इत्यत्र तु इकणो लुपः पित्वात् पुंवद्भावेन स्त्रीत्वनिवृत्तेलुप् स्यादेव / 1239 कौण्डिन्यागस्त्ययोः कुण्डिनागस्ती च // 6 / 1 / 127 // कौण्डिन्य आगस्त्य इत्येतयोबहुत्वविशिष्टे गोत्रेऽर्थे वर्तमानयोर्योऽणश्वास्त्रियां लुप् स्यात् तयोश्च कुण्डिनीअगस्त्यशब्दयोः कुण्डिन अगस्ति इत्येतावादेशौ स्याताम् / आगस्त्यशब्दस्य ऋष्यणन्तत्वात् यत्रबौ न संभवतः / कुण्डिन्या अपत्यं गर्गादित्वाद् यत्र। अतएव निर्देशात् पुंवद्भावाभावः, कौण्डिन्यः। कौण्डिन्यौ / कुण्डिनाः। आगस्त्यः। आगस्त्यौ / अगस्तयः / प्रत्ययलुपं कृत्वादेशकरणमगस्तीनामिमे आगस्तीया इत्येवमर्थम् / प्रत्ययान्तादेशे हि कृते अगस्तिशब्दस्यादेराकारस्याभावात् 'दृद्धिर्यस्य स्वरेष्वादिः' इति दुसंज्ञा न स्यात् / तदभावे च तनिमित्तो 'दोरीयः' इति ईयः प्रत्ययोऽपि न स्यात् / यदा तु प्रत्ययस्य लुब् विधीयते तदा स्वरादावीयप्रत्यये भाविनि ' न माग्जितीये स्वरे ' इति प्रतिषेधात् प्रत्ययस्य प्रत्ययान्तादेशे हि कुण्डिनशब्दाददुसंज्ञकात् तस्येदमित्यणा भवितव्यम् / प्रत्ययस्य तु लुपि ' न माग्जितीये स्वरे ' इति लुप्प्रतिषेधे सत्यामपि दुसंज्ञायामीयप्रत्ययापवादः शकलादित्वादव स्यात् अतो न विशेषः / अस्त्रियामित्येव / कौण्डिन्यः आगस्त्यः स्त्रियः। - 1240 भृग्वनिरस्कुत्सवसिष्ठगोतमात्रेः // 6 / 1 / 128 // भृगु स्तदन्तस्य बहुत्वविशिष्टे गोत्रेऽर्थे वर्तमानस्य यः स प्रत्ययस्तस्यास्त्रियां लुप् स्यात् / भार्गवः भार्गवौ भृगवः / एवमङ्गिरसः / कुत्साः / वसिष्ठाः / गोतमाः। एभ्योऽणो लुप् | अत्रयः / एयणो लुप् / अस्त्रियामित्येव / भार्गव्यः आङ्गिरस्यः; आत्रेय्यः स्त्रियः / बहुष्वित्येव / भार्गवः। आत्रेयः। गोत्र इत्येव /