SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ 260 सिद्धहैमबृहत्मक्रिया. - [तद्धित लुबर्थमिदमविधानम् / अजैव सिद्धेऽविधानं संघायण्वाधनार्थम्। तेनाकञ् भवति / पौरवकम् / मागधकमित्यादि / अञन्ताद्धि गोत्रात् ' अव्यभित्र' इति वक्ष्यमाणोऽण बाधकः स्यात् / . 1231 साल्वांशप्रत्यग्रथकलकूटाश्मकादिम् // 6 / 1 / 117 // साल्वा नाम जनपदस्तदंशास्तदवयवा उदुम्बरादयस्तेभ्यः प्रत्यग्रथकलकूटाश्मक इत्येतेभ्यश्च राष्ट्रवाचिभ्यः क्षत्रियवाचिभ्यश्च सरूपेभ्यो यथासंख्यं राजन्यपत्ये च इञ् प्रत्ययः स्यात् स च दिसंज्ञः। उदुम्बराणां राजा अपत्यं वा औदुम्बरिः। उदुम्बराः। एवं तैलखलि। तिलखलाः इत्यादयः साल्वांशाः। प्रात्यग्रथिः,प्रत्यग्रथाः। कालकूटिः, कलकूटाः / आश्मकि अश्मकाः / सर्वत्र बहुषु लुप् / ... 'उदुम्बरास्तिलखला मद्रकारा युगंधराः। ... भुलिङ्गाः शरदण्डाश्च सारखांशा इति कीर्तिताः // . . अजमीढाजकुन्दबुधास्तूदुम्बरादिविशेषाः / तेऽपि साल्वांशा एव / प्रत्यग्रथादिग्रहसमसाल्वांशार्थम् / .. 1232 दुनादिकुवित्कोशलाजादा व्यः // 6 / 1 / 118 // दुसंज्ञकेभ्यो नकारादिभ्यः कुरुशद्धादिकारान्तेभ्यः काशल अजाद इत्येताभ्यां च राष्ट्रवाचिभ्यः क्षत्रियवाचिभ्यश्च सरूपेभ्यो यथासंख्यं राजन्यपत्ये च व्यः प्रत्ययःस्यात् स च द्रिसंज्ञः। दु-आम्बष्ठानां राजा अपत्यं वा आम्वष्ठयः / नादि-निषधानां निषधस्य वा नैषध्यः। कुरु-कुरूणां कुरोर्वा कौरव्यः। इत्-अवन्तीनामवन्तेर्वा आवन्त्यः। कोश लानां कोशलस्य वा कौशल्यः। अजादानामजादस्य वा आजाद्यः / सर्वत्र बहुषु लुप् / एभ्य इति किम् / कुमारी नाम जनपदः क्षत्रिया च ततो राजन्यपत्ये वानेव भवति / कौमारः / . 1233 पाण्डोर्यण // 6 / 1 / 119 // पाण्डुशब्दादाष्टक्षत्रियवाचिनः सरू पाण्डोरपत्यं वा पाण्ड्यः। पाण्डयौ / पाण्डवः। कथं 'पाण्डवा यस्य दासाः' ? / तस्य क्षत्रियस्य राष्ट्रसरूपस्य य इंश्यो जनपदो यश्च तस्य क्षत्रियसरूपस्य राष्टस्येशिता क्षत्रियः स एव गृह्यते प्रत्यासत्तेः / अत्र तु कुरवो जनपदस्तस्य राजा पाण्डुरिति
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy