________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 259 1226 एये जिह्माशिनः // 14 // 47 // जिह्माशिनशब्दस्य एये प्रत्ययेपरेऽन्त्यस्वरादेलुग्न स्यात् / जिह्माशिनोऽपत्यं जैह्माशिनेयः / शुभ्रादित्वादेयण / 1227 गाथिविदथिकेशिपणिगणिनः // 7 // 4 // 54 // गाथिन् विदथिन् केशिन् पणिन् गणिन् इत्येतेषामिन्नन्तानामणि परेऽन्त्यस्वरादेर्लुग्न स्यात् / गाथिनोऽपत्यं गाथिनः / वैदथिनः / केशिनः। पाणिनः। गाणिनः। 1228 राष्ट्रक्षत्रियात्सरूपाद्राजापत्ये दिरञ् // 6 / 1 / 114 // क्षत्रियवाचिसरूपाद्राष्ट्रवाचिनो राष्ट्रवाचिसरूपाच्च क्षत्रियवाचिनो यथासंख्यं राजनि क्षत्रियेऽपत्ये चाञ् प्रत्ययः स्यात् स च दिसंज्ञः। 1 वेति निवृत्तम् / विदेहानां राष्ट्रस्य राजा विदेहस्य राज्ञोऽपत्यं वा वैदेहः / वैदेहौ / विदेहाः। बहुत्वे बहुष्वस्त्रियाम् इति लुप् / राष्ट्रक्षत्रियादिति किम् / पञ्चालस्य ब्राह्मणस्य राजा पाञ्चालः। तस्येदमित्यण / पश्चालस्य ब्राह्मणस्यापत्यं पाश्चालिः। सरूपादिति किम् / सुराष्ट्राणां राजा सौराष्ट्रकः / दशरथस्य क्षत्रियस्यापत्यं दाशरथिः। . 1229 गान्धारिसाल्वेयाभ्याम् // 6 / 1 / 115 // गान्धारिसाल्वेयशब्दौ इत्रेयणन्तौ सरूपा राष्ट्रक्षत्रियवचनौ / ताभ्यां राष्ट्राद्राजनि क्षत्रियादपत्ये अञ् स्यात् स च दिसंज्ञः। दुलक्षणस्य व्यस्यापवादः। वचनभेदी यथासंख्यनिवृत्त्यर्थः / गान्धारीणां राजा गान्धारे राज्ञोऽपत्यं च गान्धारः। गान्धारी। गान्धारयः। बहुष्वओलुप् / एवं साल्वेयः। साल्वेयौ। साल्वेयाः। एकत्वद्वित्वयोस्त्वपत्यार्थविवक्षायामब्राह्मणादिति लुप् न भवति विधानसामर्थ्यात् / अन्यथा व्यविधावेवानयोः प्रतिषेधः क्रियेत / तथा पूर्वेणैवाञ् सिध्यति / 1230 पुरुमगधकलिङ्गशूरमसद्विस्वरादण् // 6 // 1 // 116 // पुरुमगधकलिङ्गशूरमस् इत्येतेभ्यो द्विस्वरेभ्यश्च शब्देभ्यो राष्ट्रवाचिभ्यः क्षत्रियवाचिभ्यश्च सरूपेभ्यो यथासंख्यं राजन्यपत्ये चार्थे दिरण स्यात् / अञोऽपवादः / पुरोरपत्यं पौरवः / मगधानां राजा मगधस्यापत्यं वा मागधः। एवं कालिङ्गः। शौरमसः। द्विस्वर-अङ्गानां राजा अङ्गस्यापत्यं वा आङ्गः / सर्वत्र बहुषु लुप् / पुरुग्रहणमराष्ट्रसरूपार्थम् / अस्ति राजा पुरुर्नाम न तु राष्ट्रम् / तस्यौत्सर्गिकेणैवाणा सिद्धे बहुषु 1 अपत्येऽनुवर्तमाने राजनीत्यधिकार्थस्य भणनात् /