________________ 267 प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 1213 पुत्रान्तात् // 6 / 1 / 111 // पुत्रशब्दान्तात् दुसंज्ञकादपत्ये आयनि प्रत्ययो वा स्यात् / गार्गीपुत्रायणिः, गार्गीपुत्रिः। पूर्वेणायनिवि सिद्धे वचनमिदमुत्तरसूत्रप्राप्तकागमाभावार्थम् / पक्षे उत्तरेण च कागमोऽपि / एवं च गार्गीपुत्रकायणिरिति तार्तीयिकमपि रूपं भवति / 1214 चर्मिगर्मिगारेटकार्कटयकाकलंकागकिनाच्च कश्चान्तोऽन्त्यस्वरात् // 6 / 1 / 112 // चमिन् वर्मिन् गारेट कार्कट्य काक लंका वाकिन इत्येतेभ्यः पुत्रान्ताच्च दुसंज्ञकादपत्ये आयनिञ् प्रत्ययो वा स्यात् तत्संनियोगे चैषामन्त्यस्वरात् परः ककारोऽन्तः / चार्मिकायणिः, चार्मिणः। वार्मिकायणिः, पार्मिणः / अत्र अणि नोऽपदस्येत्यनेनान्त्यस्वरादेलुकि प्राप्ते। 1215 संयोगादिनः // 7 // 4 // 53 // संयोगात् परो य इन् तदन्तस्याणि परेऽन्त्यस्वरादे ग न स्यात् / इति प्रतिषेधान्न भवति / गारेटकायनिः, गारेटिः। कर्कटस्यापत्यं कार्कटयः, तस्यापत्यं कार्कटयकायनिः, कार्कटयायनः / यदा त्वव्युत्पन्नः कार्कटयशब्दस्तदा पक्षे इवेव / कार्कव्यिः। काककायनिः,' काकिः। लाङ्ककायनिः, लाङ्केयः / लङ्कशब्दं केचिदकारान्तमिच्छन्ति, तन्मते लाङ्ककायनिः, लाङ्किः / वाकिनकायनिः, वाकिनिः / पुत्रान्तादोः-गार्गीपुत्रकायणिः, गार्गीपुत्रिः। ककारस्यान्त्यस्वरात् परतो विधानं चमिवर्मिणोः नकारस्य लोपार्थम् / यद्येवं परादिरेव क्रियेत / नैवम् / तथा सति प्रत्ययस्य व्यंजनादित्वात्-.. 1216 जातिश्च णितद्धितयस्वरे / / 3 / 2 / 51 // अन्या परतः स्त्री जातिश्च णिपत्यये यकारौ स्वरादौ च तद्धिते विषयभूते उत्पत्स्यमाने तद्विवक्षायामेव पुर्वत् स्यात् अनूङ् ।-इत्यनेन पुंवद्भावो न सिद्धयेत्-चर्मिण्या अपत्यं चार्मिकायणिः / 'कोण्डिन्यागस्त्ययोः' इति सूत्रे 'कौण्डिन्य' इति निर्देशादनित्योऽयं पुंवद्भावः / ततश्च मनाय्या अपत्यं गर्गादित्वात् यत्रि मानाय्य इत्यत्र न भवति / सपत्न्या अपत्यं शिवादित्वादणि सापत्नः इत्यत्रापि न भवति / ' सपत्न्यादौ' इति सूत्रे सपत्नीतिसमुदायनिपातनात् / अतएव सपत्नीभार्य इत्यत्रापि न भवति / सपत्नस्यायं सापत्न इति वा भविष्यति / __1217 एयेऽग्नायी // 3 / 2 / 52 // तद्धिते एयप्रत्यये परे आनाय्येव परतः स्त्री पुंवत् स्यात् / अग्नाय्या अपत्यं आग्नेयः / कल्यग्नेरेयण / पूर्वेण सिद्धे