________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. . 255 कौरव्यः / कुरुशब्दश्च तिकादिष्वपि पठ्यते / कौरवायणिः / उत्साद्य तु ज्यायनित्रभ्यां बाधितः कुरुशब्दादपत्ये न भवति / शकु-शाङ्कव्यः। बहुषु शाङ्कव्याः। स्त्री शाङ्कव्या / लोहितादौ पाठात् पौत्रादौ यत्रि शाङ्कव्यः। बहुषु लुप् शङ्कवः / स्त्री शाङ्कव्यायनी। 1203 सम्राजः क्षत्रिये // 6 / 1 / 101 // सम्राज् इत्येतस्मात् क्षत्रियेऽपत्ये ज्या प्रत्ययः स्यात् / सम्राजोऽपत्यं साम्राज्यः क्षत्रियश्चेत् / अन्यत्राणेव साम्राज; अन्ये साम्राजिरित्याहुः / तत्र सम्राट् बाहादिषु द्रष्टव्यः। __1204 सेनान्तकारुलक्ष्मणादि च // 6 / 1 / 102 // सेनशब्दान्तेभ्यः कारवः कारिणस्तन्तुवायादयस्तद्वाचिभ्यो लक्ष्मणशब्दाचापत्ये इञ् प्रत्ययः स्यात् व्यश्च / सेनान्त-हारिषेणिः हारिषेण्यः। कारु-तान्तुवायिः, तान्तुवाय्यः। रथकारनापिततक्षभ्यो ज्य एव नेञ् कुर्वादिपाठात् / कुर्वादौ जातिवाचिन एव पाठात् स्थकारादिबपीत्येके / लक्ष्मण-लामणिः, लाक्ष्मण्यः / ऋषिवृष्ण्यन्धककुरुभ्योऽण डन्याप्त्यूङन्तेभ्यस्त्वेयण परत्वादाभ्यां बाध्यते / 1205 सुयाम्नः सौवीरेष्वायनिञ् // 6 / 1 / 103 // सुयामनशब्दात सौवीरेषु जनपदे योऽर्थस्तस्मिन् वर्तमानादपत्ये आयनिञ् प्रत्ययः स्यात् / सौयामायनिः। सौवीरेभ्योऽन्यत्र सौयामः। 1205 पाण्टाहृतिमिमताण्णश्च // 6 / 1 / 104 // पाण्टाहृतिशब्दादिजन्तान्मिमतशब्दाच सौवीरेषु जनपदे योऽर्थस्तस्मिन् वर्तमानाभ्यामपत्येऽण् आयनि च प्रत्ययौ स्याताम् / पाण्टाहृतेरपत्यं युवा सौवीरगोत्रः पाण्टाहृतः पाण्टाहतायनिर्वा / मिमतस्य मैमतः मैमतायनिर्वा / सौवीरेष्वित्येव / पाण्टाहतायनः / 'यअिञः' इत्यायनण् / मैमतायनः / अत्र नडादित्वात् / अनन्तरो मैमतिः / 1207 भागवित्तितार्णबिन्दवाकशापेयान्निन्दवायामिकण्वा // 6 // 1 // / 105 // भागवित्ति ताणविन्दव आकशापेय इत्येतेभ्यः सौवीरेषु वृद्धे वर्तमानेभ्यो यून्यपत्ये इकण्प्रत्ययो वा स्यात् निन्दायाम् गम्यमानायाम् / भागवित्तरपत्यं युवा निन्दितः भागवित्तिकः, भागवित्तायनो वा जाल्मः। तार्णबिन्दविका, 'एत्यकः' इति षत्वम् /