SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ 254 सिद्धहैमबृहत्पक्रिया. [तद्धित मानवीः प्रजाः पश्य / अत्र हि मनोरपत्यमित्येतावानेवार्थो विवक्षितो न जातिस्तेन षोऽन्तो न भवति / वृद्धापत्यविवक्षायां तु लोहितादिपाठाधव / मानव्यः। मोनव्यौ। मनवः। मानव्यायनी / मनुष्यमानुषशब्दाभ्यां सत्यसति चापत्येऽर्थे अनभिधानादपत्ये पुनरन्यः प्रत्ययो न भवति / 1197 माणवः कुत्सायाम् // 6 // 195 // माणव इति मनुशब्दस्यौत्सर्गिकेऽण्प्रत्यये कुत्सायां गम्यमानायां नकारस्य णकारादेशो निपात्यते / मनोरपत्यं / कुत्सितं मूढं माणवः। 1198 कुलादीनः // 6 // 1 // 96 // कुलशब्दान्तात् केवलाञ्च कुलशब्दादपत्ये ईनः प्रत्ययः स्यात् / कुलस्यापत्यं कुलीनः। ईषपरिदसमाप्तं कुलं बहुकुलम् तस्यापत्यं बहुकुलीनः / क्षत्रियकुलीनः / एषु अत इञः अदोरायनेश्चापवादः। आढयकुलीनः। राजकुलीनः / अत्र ' अवृद्धादोन वा' इत्यायनिनोऽत इञश्च / उत्तरसूत्रे समासे प्रतिषेधादिह कुलान्तः केवलश्च गृह्यते / 1199 यैयकमावसमासे वा // 6 / 1 / 97 // कुलशब्दान्तात् केवलाच्च कुलशब्दादपत्ये य एयकञ् इत्येतौ प्रत्ययौ वा स्याताम् ताभ्यां मुक्ते ईनश्च न चेत् कुलशब्दः समासे वर्तते / कुल्यः, कौलेयकः, कुलीनः। बहुकुल्यः, बाहुकुलेयकः, बहुकुलीनः / असमास इति किम् / आढयकुलीनः / 1200 दुधकुलादेयण वा // 6 / 1 / 98 // दुष्कुलशब्दादपत्ये एयण प्रत्ययो वा स्यात् / दौष्कुलेयः / दुष्कुलीनः / 1201 महाकुलाद्वात्रीनौ // 6 / 1 / 99 // महाकुलशब्दादपत्ये अञ् ईनञ् इत्येतौ प्रत्ययौ वा स्याताम् ताभ्यां मुक्ते ईनश्च / माहाकुलः, माहाकुलीनः महाकुलीनः। महेत्याकारनिर्देशात् महतां कुलं महत्कुलं तस्यापत्यं महत्कुलीन इति ईन एव भवति / 1202 कुर्वादेयः // 6 / 1 / 100 // कुरु इत्येवमादिभ्योऽपत्ये व्यः प्रत्ययः स्यात् / कौरव्यः / अक्षत्रियवचनस्येह कुरोग्रहणम् , क्षत्रियवचनात्तु ' दुनादिकुर्विस्कोशलाजादाअव्यः' इत्यनेन व्यः। अयं चानयोविशेषः। तस्य द्रिसंज्ञकत्वात् बहुषु लुप कुरवः / अस्य तु द्रिसंज्ञाया अभावात् कौरव्याः ततो यूनि तिकादिपाठादापनिन् / कौरव्यायणिः / अस्माचात इन् / तस्य 'जिदार्पदणिोः ' इति लुप् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy