SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 253 जाल्मः / स्त्रिया इति किम् / औपगविर्जाल्मः / क्षेप इति किम् / गार्गेयो माणवकः। मातुःसंविज्ञानार्थमिदमुच्यते / 1189 भ्रातुर्व्यः // 6 / 1188 // भ्रातृशद्धादपत्ये व्यः प्रत्ययः स्यात् / भ्रातुरपत्यं भ्रातृव्यः। शत्रुरपि भ्रातृव्य उच्यते स उपचारात् / एकद्रव्याभिलाषश्चोपचारनिमित्तम् / 1190 ईयः स्वसुश्च // 6 / 1 / 89 // भ्रातृशद्वात् स्वमृशदाचापत्ये ईयः स्यात् / भ्रात्रीयः / स्वस्रीयः। 1191 मातृपित्रादेर्डेयणीयणौ // 6 / 1 / 90 // मातृपितृशद्धावादी अवयवौ यस्य स्वसुः स्वसन्तस्य तस्मात् मातृष्वमृशद्वात् पितृष्वसशद्धाच्चापत्ये डेयण ईयण इत्येतौ प्रत्ययौ स्याताम् / वचनभेदान्न यथासंख्यम् / मातृष्वसेयः / मातृष्वतीयः। पैतृष्वसेयः। पैतृष्वस्रीयः। डित्वात् डेयणि अन्त्यस्वरादिलोपः। मातृपित्रादेः स्वरन्तस्य ग्रहणादिह न भवति / परममातृष्वसुरपत्यम् / परमपितृष्वसुरपत्यम् / मातृ-. पितृशद्वयोर्ककारान्तयोनिर्देशात् इह न भवति / मातुःस्वस्रः। मातुःष्वस्रः / पैतुःस्वस्रः। पैतुःष्वस्रः / अत्र अलुपि वेति विकल्पेन षत्वम् / / 1192 श्वशुराद्यः // 6 / 1 / 91 // श्वशुरशब्दादपत्ये यः प्रत्ययः स्यात् / श्वशुरस्यापत्यं श्वशुर्यः। 'संबंधिनां संबंधे' इतीह न भवति / श्वशुरो नाम कश्चित् तस्यापत्यं श्वाशुरिः। 1193 जातौ राज्ञः // 6 / 1 / 92 // राजन्शब्दादपत्ये जातौ गम्यमानायां यः स्यात् / 1194 अनोऽट्ये ये // 7 / 4 / 51 // अन् इत्येतदन्तस्य व्यवर्जिते ये प्रत्यये परेऽन्त्यस्वरादेलुग्न स्यात् / राज्ञोऽपत्यं राजन्यः क्षत्रियजातिश्चेत् / जाताविति किम्। राजनोऽन्यः। 1195 क्षत्रादियः // 6 // 193 // क्षत्रशब्दादपत्ये इयः प्रत्ययः स्यात् जाती गम्यमानायाम् / क्षत्रस्यापत्यं क्षत्रियः जातिश्चेत् / क्षात्रिरन्यः। 1196 मनोर्याणौ षश्चान्तः // 6 / 1 / 94 // मनुशब्दादपत्ये य अण् इत्येतो मनोरपत्यानि मनुष्याः, मानुषाः / मानुषी। जातावित्येव / मानवः / मानवाः /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy